SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Mphithe Acharya Shri Kailassagarsuri Gyanmandir ४९ अन्यथा वाद्यभिप्रेतद्देतुगोचर मोहिनः । प्रत्याय्यस्य भवेद्धेतुर्विरुद्धारेकितो यथा ॥ १५ ॥ अम्यथा इति उक्तविपरीताश्रयणे पक्षप्रयोगाकरणे इत्यर्थः । वादिनो हेतूपन्यासकर्तुरभिप्रेतोऽभिमतः स चासो हेतुगोचरश्च वाद्यभिप्रेत हेतु गोचरः, तत्र मुयति दोलायते तच्छीला यः, तस्य प्रत्याय्यस्य प्रतिवादिनो हेतुः विरुद्धा रेकितो भवेद् विरोधशङ्काकलङ्कितः स्यादित्यर्थः । ततश्च सम्यगृहेतावपि विपक्षे एवायं वर्तते इति व्यामोहाद् विरुद्धदूषणमभिदधीत पक्षोपन्यासात्तु निर्णतहेतुगोचरस्य नैष दोषः स्यादित्यभिप्रायः । अमुमेवार्थ स्पष्टदृष्टान्तेनाह यथा इति । तदुपन्यासार्थः ॥ १५ ॥ For Private And Personal Use Only धानुष्क गुणसंप्रेक्षिजनस्य परिविध्यतः । धानुष्कस्य विना लक्ष्यनिर्देशेन गुणेतरौ ॥ १६ ॥ यथा लक्ष्यनिर्देशं विना धानुष्कस्येषु प्रक्षिपतो यौ गुणदोषौ तौ तद्दर्शिजनस्य विपर्यस्तावपि प्रतिभातः, गुणोऽपि दोषतया दोषोऽपि वा गुणतया, तथा पक्षनिर्देश विना हेतुमुपन्यस्यतो वादिनो यौ स्वाभिप्रेतसाध्यसाधनसमर्थत्वासमर्थत्वलक्षणौ गुणदोषौ तौ प्रानिकप्रतिवाद्यादीनां विपरीतावपि प्रतिभात इति भावार्थ: । अक्षरार्थस्तु धनुषा चरति धानुष्कस्तस्य गुणो लक्ष्य वेधप्रावीण्यलक्षणस्तत्र प्रेक्षकाणां कुतूहलमिति तस्यैवोपादानम्, अन्यथा दोषोऽपि दृष्टव्यः, तत्संप्रेक्षिजनस्य तत्संप्रेक्षणशीललोकस्य परिविध्यतो यथाकथंचिद् बाणं मुञ्चत इत्यर्थः, धानुष्कस्य विना लक्ष्यनिर्देशेन चापधरस्य वेध्यनिष्टङ्कनमृते यौ गुणेतरौ गुणदोषौ तौ यथा विरुद्धारेकितौ भवतः, तथा वादिनोऽपीत्यर्थः । तस्मादविज्ञाततदर्थे प्रतिवादिनि वादिधानुष्केण पक्षलक्ष्यं निर्देश्यैव हेतुशरः प्रयोक्तव्य इति स्थितम् ॥ १६ ॥ सांप्रतं हेतोर्लक्षणावसरः, तच्च स्वार्थानुमानवद् निर्विशेषं द्रष्टव्यम्, प्रयोगस्तु तत्र न दर्शितः, स्वार्थानुमानस्य बोधरूपत्वात्, इह तु दर्शनीयः, परार्थानुमानस्य वच्चनरूपत्वात्, अतस्तं दर्शयति तोस्तथोपपत्त्या वा स्यात्प्रयोगोऽन्यथापि वा । द्विविधोऽन्यतरेणापि साध्यसिद्धिर्भवेदिति ॥ १७ ॥ स्वार्थानुमानप्रस्तावे हि परप्रणीतलक्षणान्तरव्यपोहेन साध्यव्यतिरेकात् विरुद्वदूषणमभिदधीतेति । यत् कृतकं तदनित्यम्, यथा घटः, कृतकश्च शब्द इत्युक्ते हि यद्यपि नित्यत्वे साध्ये कृतकत्वमत्र हेतूकृतम्, कृतकत्वानित्यत्वयोश्च व्याप्तिदर्शितेत्येवं विरुद्धतामभिदध्यादिति भावः ॥ १५ ॥ धनुषा चरतीति । अस्मिन् वाक्ये तेन इति सूत्रेण चरत्यर्थे ठक् । इत्कु इक् इति बाधनार्थ को शश्चात्तादोरिनुसः इत्यनेन कादेशः । अविज्ञाततदर्थ इति । अविदितपक्षार्थे ॥ १६ ॥ न्याया- ७
SR No.010648
Book TitleNyayavatara
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherJain Shwetambar Conference Mumbai
Publication Year
Total Pages110
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy