________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Patarare:
३७
विधेया, तस्यैव तत्र दुःस्थितत्वात् । एतेन संयोगिनाऽपि गमकता प्रत्युक्ता, समानखूप गत्वात् । विरोधिनोऽपि विरुद्धाभावगमकत्वमन्यथानुपपचत्वमेव सूचयति, तदभावे गमकत्वायोगात् । एवं परपरिकल्पितमन्यदपि लिङ्गलक्षणं यद्मकता तदन्यथानुपपचत्वं न व्यभिचरति, साध्यं विनाप्युपपद्यमानस्य गमकतावैकल्यादिति, अत्रैव व्यापके लिक्लक्षणे अन्तर्भावनीयम्, विपरीतं निरसनीयमिति स्थितम् । तदेवमनुमानलक्षणं प्रतिपाशाधुना यच्छौ छोदनिशियैर्म्यगादि - यदुत भ्रान्तमनुमानम्, सामान्यप्रतिभासित्वात् । तस्य च बहिः स्वलक्षणे व्यतिरेकाव्यतिरेकविकल्पाभ्याम पाक्रियमाणतया अयोगात्, तद्रूपतया च तेन तस्याध्यवसायाद् अतस्मिंस्तद्ग्रहणस्य च भ्रान्तिलक्षणत्वात् । प्रामाण्यं पुनः प्रणालिकया बहिः स्वलक्षणबलायातत्वादनुमानस्य । तथा हि-नार्थं विना तादात्म्य तदुपत्तिरूपसंबन्धप्रतिबद्धलिङ्गसद्भावः न तद्विना तद्विषयं ज्ञानम्, न तज्ज्ञानमन्तरेण प्रागवधारित संबन्धस्मरणम्, तदस्मरणे नानुमानमिति, अर्थाव्यभिचारित्वाद् भ्रान्तमपि प्रमाणमिति संगीर्यते । तदुक्तम्
Acharya Shri Kailassagarsuri Gyanmandir
अतरिंगस्तद्रहो भ्रान्तिरपि संबन्धतः प्रमा । इति ।
तदपाकर्तुमाह-तद्भ्रान्तमित्यादि । तदनुमानं भ्राम्यति स्वगोचरे विपर्यस्यतीति भ्रान्तम्, ततोऽन्यदभ्रान्तम् अविपरीतार्थग्राहीति यावत् इयं च प्रतिज्ञा; प्रमीयते यथावस्थितोऽर्थः परिच्छिद्यतेऽनेनेति प्रमाणम्, तद्भावस्तत्त्वं तस्मात्, अयं तु हेतुः; संगतम क्षाणामिति समक्षम्, तदिव समक्षवदिति दृष्टान्तः तदिदमनुमानस्य अन्ततानिराकारकं संपूर्णावयम्, उपनयनिगमनयोरवयवत्रयप्रतिपादनेनैवाक्षिप्तस्वात् प्रमाणं सूचितम् । प्रयोगस्स्वेवं द्रष्टव्यः - अभ्रान्तमनुमानम्, प्रमाणत्वात् इह यत् यत् प्रमाणं तत्तदभ्रान्तं यथा समक्षम्, तथा च प्रमाणं भवद्भिरभ्युपगम्यते अनुमानम्, तस्मात्प्रमाणत्वादभ्रान्तमिति प्रतिपद्यन्तामिति । तत्रार्थवादी तावत्समक्ष
For Private And Personal Use Only
·
विरोधिन इत्यादि । विरोधी वह्निः स्वविरुद्धस्य शीतस्य असत्त्वं बोधयति । विरुद्धाभावगमकत्वमित्युपलक्षणम्, विरुद्धसद्भाव गमकत्वस्यापि दर्शनात् । अत एव पूर्वमहिर्विस्फूर्जित विशिष्टो नकुलादिलिङ्गमित्युक्तम्, तस्य च सामान्यस्य तद्रूपतया च तेन तस्याध्यवसायादिति, स्वलक्षणरूपतया चानुमानेन सामान्यस्य विकल्पनात् । अतस्मिन् अस्वलक्षणे तद्ग्रहस्य स्वलक्षणतया परिच्छेदस्य भ्रान्तिरपि संबन्धतः प्रमेति । अमुमेवार्थं दृष्टान्तपूर्वकं विनिश्चये धर्म कीर्तिरकीर्तयत् । यथा
मणिप्रदीप प्रभयोर्मणिबुद्धयाभिधावतोः । मिथ्याज्ञानाविशेषेऽपि विशेषोऽर्थक्रियां प्रति ॥ १॥ यथा तथा यथार्थत्वेऽप्यनुमानतदाभयोः । अर्थक्रियानुरोधेन प्रमाणत्वं व्यवस्थितम् ॥ २ ॥ इति ॥ ५ ॥