________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टीका-टिप्पनसहितः
तत्र तावदनुमानलक्षणमभिधित्सुराह
साध्याविनाभुनो लिङ्गात्साध्यनिश्चायकं स्मृतम् ।
अनुमानं तदभ्रान्तं प्रमाणत्वात्समक्षवत् ॥ ५॥ साध्याविनेत्यादि । इहाप्यनुमानमिति लक्ष्यनिर्देशः, तस्य प्रसिद्धतया अनूधस्वात् । साध्याविनाभुनो लिङ्गात् साध्यनिश्चायकमिति लक्षणनिर्देशः, तस्याप्रसि. द्वतया विधेयत्वादिति । अत्राप्यनुमानशब्दस्य कादिकारकव्युत्पत्तिक्रमेणार्थकथनं प्रमाणशब्दवद् द्रष्टव्यम् । ततश्चेहापि लिङ्गग्रहणसाध्याविनाभाविस्खलक्षणलिङ्गसंबन्धस्मरणकालात् अनु पश्चान्मीयते परिच्छिद्यतेऽर्थोऽनुमेयपावकादियेन ज्ञानेन तदनुमानमिति । तत् किंभूतमित्याह-साध्यनिश्चायकमिति। साधनमर्हति साधयितुं वा शक्य इति साध्योऽनुमेय इत्यर्थः, तस्य निश्चायकं तत्स्वरूपनिर्णायकमिति यावत् । तत्कुत इत्याह-लिङ्गात् , लिङ्ग यते गम्यतेऽर्थोऽने ति लिङ्ग हेतुः तस्मात् । किंभूतादित्याह साध्याविनाभुन इति । विना भवतीति विनाभु, ततोऽन्यदविनाभु, साध्येनाविनाभु साध्याविनाभु, साध्यं विमुच्य यन्न भवतीत्यर्थः, तस्मात् साध्य. निश्चायकं ज्ञानं तदनमानं स्मृतम् अभिप्रेत नीतिवनिरिति संबन्धः । तत्र लिङ्गात् साध्यनिश्वायकमित्यनेनानुमानस्य प्रत्यक्षशाब्दलक्षणसंकीर्णतां बारयति । साध्याविनाभुन इत्यनेन परप्रणीतलिङ्गलक्षणव्युदासमाचष्टे । .तश्च यत्परे प्रोचुः-पक्षधर्मस्वान्वयव्यतिरेकलक्षणरूपत्रयोपलक्षितानि त्रीण्येव लिङ्गानि अनुपलब्धिः स्वभावः कार्य चेति । तदुक्तम्
अनुमेयेऽथ तत्तुल्ये सद्भावो नास्तितासति । निश्चितानुपलम्भारमकार्याख्या हेतवस्त्रयः॥ इति ।
साक्षात्कारिप्रमासाधनं प्रत्यक्षमित्यादि गृह्यते ॥ ४ ॥
____ अनूयत्वादिति । ननु वदेरनुपूर्वस्य नानो वदः क्यप् च (सि० हे. ५-१-३५) इति क्य प्प्रत्ययो न प्राप्नोति, अनुपसर्गादित्यधिकारानुवृत्तेः, ततो व्यञ्जनान्तत्वाद् ध्यणि अनुवाद्यत्वादित्येव स्यात् । सत्यम्, अनुवदनमनून, संपदादित्वात् भावे स्विप , ततोऽनूदि अनुवादविषये साधु इति साध्वर्षे येऽनूवत्वादिति । पक्षधर्मान्वयेत्यादि। परे बौद्धाः । तदुक्तमिति । दिग्नागेनेति शेषः । अनुमेयेत्यादि। अनुमेयः पक्षः, तत्र सद्भावः प्रत्यक्षतोऽनुमानतो वा हेतोर्दर्शनम् ; तत्र प्रत्यक्षतः कस्मिंश्चित् प्रदेशे धूमस्य, अनुमानतः शब्दे कृतकत्वस्य । तथा तत्तुल्ये साध्यसभावाद् अनुमेयसमे सपक्षे इत्यर्थः, असति विपक्षे नास्तिता निश्चिता तृतीयं रूपम् । निश्चित इति लिङ्गविपरिणामेन पूर्वयोरपि रूपयोर्योज्यम् । यद्विनिश्चये- अन्ते वचनानिश्चितत्वं त्रिवपि रूपेषु द्रष्टव्यम् इति, एतल्लक्षणा अनुपलब्धि. स्वभावकार्याख्यानयो हेतवः । यथा कचिद्देशे न घटः, उपलब्धिलक्षणप्राप्तस्यानुपलब्धेः ।
For Private And Personal Use Only