SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir का-टिप्पणसहित पदि समवायवादात्मनि ज्ञानं समवैति, तदा भात्मनां समवायस्य च विभुत्वादेकरूपत्वाच सर्वात्मसु किं न समवैति ? विशेषाभावात् , तथा च देवदत्तज्ञानेन यज्ञदत्तादयोऽप्यर्थतत्वं बुचरन् । अन्यच्च विज्ञानोदयसमयेऽपि यादृशः प्रागवस्थायां ताश एव संतिष्टमानः प्रागप्रमाता पश्चात् प्रमातेति ब्रुवाणः खलून्मत्तता. मात्मनि आविर्भावयति, नापरमित्यास्तां तावत् । पश्चार्धन पुनर्भूतव्यतिरेकिणं स्वसंवेदनप्रत्यक्षनिर्माचं जीवं दर्शयच्चार्वाकदर्शनं तिरस्कुरुते, जडात्मकभूतान्यतिरेके हि तद्धितलक्षणबोधरूपहर्षविपादादिविवर्तानुभवाभावप्रसङ्गात् । ननु च कायाकार• परिणतानि भूतान्येवात्मव्यतिरेकिणी चेतनामुत्कालयन्ति, सा च तथाविधपरिणामपरिणतेषु तेषु संतिष्ठते तदभावे पुनस्तेष्वेव निलीयते इति तद्व्यतिरेकानु. भवेऽपि न परलोकयायिजीवसिद्धिः, इयतैव दृष्टव्यवहारोपपत्तेः । नैतदस्ति, द्वयं हि तावदेतत् संयोगमनुभवदुपलभ्यते- पञ्चभूतात्मकं शरीरं चेतना च । तत्रापि शरीरं बहिर्मुखाकारेण बोधनार्थरूपतया जडमनुभूयते, चेतना पुनरन्तर्मुखाका. रेण स्वसंवेदनप्रत्यक्षेण साक्षाक्रियते, अत एवाव्यतिरेकः पक्षः प्रतिभासनिराकृतस्वानाशक्तिः, व्यतिरेकिणोः पुनः प्रकाशमानयोः यदि भूतान्येव चेतनामुत्कालयन्तीति भवद्भिः परिकल्प्यते, तदा चेतनैव भवान्तरादुत्पत्तिस्थानमायाता पचभूतभ्रान्तिजनकं शरीरं निर्वर्तयेत् , पुनर्भवान्तरं यातुकामा मुश्चेत् , तत्तयाधिरितं गमनादिचेष्टां कुर्यात् , तद्वियुक्तं पुनः काष्ठवत्तिष्ठेदिति जीवसंपाद्यमेव शरीरम् , न पुनरसौ तत्संपाद्य इति । एतत्परिकल्पनं युक्ततरं पश्यामः, जीवस्य चेतनावतः सकर्मकतयापरापरभवभ्रमणपरापरशरीरनिर्वर्तनयोरुपपद्यमानत्वात्। भवान्तरादा. गच्छन्नुत्पत्तिस्थानं जीवोऽध्यक्षेण नोपलभ्यते इति चेत् , भूतान्यपि तर्हि कायाकारधारणद्वारेण चेतनामुत्कालयन्तीति प्रत्यक्षेण नोपलक्ष्यन्ते इति समानो न्यायः। अथ कायाकारपरिणतेष्वेव भूतेषु चेतनोपलभ्यते नान्यदा इत्यन्यथानुपपत्तिवशात् तजन्येति परिकल्प्यते, एवं तर्हि मृतावस्थायां कायाकारमाबिभ्राणेष्वपि नोपलब्धा, कायाकारपरिणामो वा कादाचित्कतया हेत्वन्तरापेक्षी इत्यन्यथानुपपत्तिवशादेव तन्निर्वर्तनक्षमा चेतना भवान्तरागतचेतना जीवसंबन्धिनीति प्रतिपद्यामहे । किं च, जीवस्तावत् कर्मचैतन्यसंबन्धाच्छरीरनिर्वर्तनाथ प्रवर्तत इति युक्तमेवैतत् , भूतानि पुनः किंभूतानि चेतनाकरणे प्रवर्तेरन् सचेतनानि निश्चेतनानि वा ? पद्याद्यः कल्पः, ततो विकल्पयुगलमवतरति- तच्चैतन्यं तेभ्यो भिन्नमभि वा ? यदि भिन्नं तदा पुरुषशरीरवत् तत्रापि भूतैः सह वर्तमानमपि भूतविलक्षणमात्म wwinrnw तदिति अन्यथानुपपन्नत्वम् । तद्वाधकरवात् व्यतिरेकबाधकत्वात् । उत्कालयन्तीति । कल-पिल-डिप क्षेपे चुरादावदन्तः, अधिकीकुर्वन्तीत्यर्थः । तजन्येति कायाकारपरिणामजन्या । तधिर्वर्तनेति कायाकारपरिणामोत्पादनसमर्धा । पुरुषंशरीरेत्यादि । यथा पुरुष For Private And Personal Use Only
SR No.010648
Book TitleNyayavatara
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherJain Shwetambar Conference Mumbai
Publication Year
Total Pages110
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy