SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ( ५६ ) सारस्वते प्रथमवृत्तौ । नपुंसकलिङ्गाः । तत्र पुलिङ्गे रूपमाह । सृगतौ वप्रत्ययः । सरति प्रसरतीति सर्वः (म.ए.) खो० । सर्वः (म.ए.) । ओ औ औ । सर्वौ । बहुत्वे विशेषणकृत्यमाह । सूत्रम् । जसी । सर्वादेरकारान्तात्परो जस् ई भवति । अइए सर्वे । सर्वम् सर्वो सर्वान् । पूर्ववत्प्रक्रिया । जसी | जस् (म. ए. ) साङ्के० । ई (म. ए. ) सर्वा वृत्तिः सुबोधा । गुरु शिश्च सर्वस्येति गुरुत्वात् सर्वस्य जस् ई भवति । प्रक्रियायां तु जसः । शेषात्सवैस्य नवरमकारान्तग्रहणं भवच्छब्दनिषेधसुचकम् । अनेन ई । अ इ ए । द्वितीयायां देववत् । तृतीयैकवचने सर्व + आ ' टेन ' इति ' इन ' आदेश कृते । अ इ ए । ततः सूत्रम् । कर्नो णोऽनन्ते । पकाररेफऋवर्णभ्यः परस्य नकारस्य णकारादेशो भवति । अन्ते स्थितस्य न भवति । तेन सर्वानित्यादि । नणोनन्ते । श्च च ऋच षृतस्मात् हः ( पं. ए . ) ऋतोङउः । सच डित् । डिवाट्टिलोपः । स्वर० । (ष. ए.) स्रो० । नामिनोरः । जल० 1 (प्र.ए.) खो० | हबे | उ ओ । अनन्तः न अन्तो अनन्तस्तस्मिन् अनन्ते (स. ए. ) अइए । अतोत्युः एदोतोऽतः सिद्धम् । पाठसिद्धा वृत्तिः । अन्ते पदा न्ते स्थितस्य व्यञ्जनस्येत्यर्थः । नन्वत्र रेफस्याग्रे नकारो नास्ति, किन्तु मध्ये वकारेकारौ स्तः, तत्कथं नकारस्य णकारः स्यादित्याह । सूत्रम् । अवकुप्वन्तरेऽपि । अवप्रत्याहारेण कवर्गेण पवर्गेण च मध्ये व्यवधानेऽपि भवति नान्येन । सर्वेण सर्वाभ्याम् सर्वैः । चतुय्यैकवचने सर्व इति स्थिते । अवकुष्वन्तरेऽपि । अवश्च कुश्च पुश्च अवकुपवः तैरन्तरं अवकुप्वन्तरं तस्मिन् (स. ए.) अइ ए । अपि ( प्र . ए . ) अव्यया० । एदो० । अवमत्या० । अवप्रत्याहारस्य अन्तरे कवर्गस्यान्तरे पवर्गस्यान्तरे अपिशब्दात् जिव्हामूलीयोपध्मानीयानुस्वारनु विसर्गव्यवधाने अन्तरेऽपि णत्वं वक्तव्यम् ।
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy