________________
(५४)
सारस्वते प्रथमवृत्तौ। विहितः कृतो यः सिः प्रथमैकवचनरूपः स घिसंज्ञो भवति । उदाह० देवस् । घिसंज्ञायां किं कार्यमित्याह सूत्रम् ।
समानादेलोपोऽधातोः। समानादुत्तरस्य धेर्लोपो भवत्यधातोः।
हस्वात्समानादुत्तरस्येति ज्ञेयम् । समानादिति । समान (पं. ए.) सिरत् । सवर्ण । धि (प.ए.) किति उस्येत्यकारलोपः। झबे जबाः । तस्य दः । स्वर लोप (प्र. ए.) स्रो० ॥ नामिनो रः । जलतुम्बिकान्यायेन । अधातुः न धातुरधातुस्तस्मात् (पं.ए.) निति स्येत्यकारलोपः । अतोऽत्युः। ओ औ । एदोतीतः । सिद्धम् । समासाहुतरस्य धेलोंपो भवति । अत्र समानादिति हूस्वसमानात् परस्येति व्याख्ये. यम् । अन्यथा हे हाहाः, हे हुहू:, हेवातप्रमीः इत्यादौ विरुणद्धि । अधातोः अक्विबन्दात् शब्दात् अक्किबन्तोऽधातुरुच्यते विबन्तश्च शब्दो धातुरित्यभिमायः। अनेन घिलोपः । पूर्व ' है ' शब्दः । एतद्धेनुः ।
___ आभिमुख्याभिव्यक्तये शब्दस्य माक् प्रयोगः। हेदेव हेदेवौ हेदेवाः। एवं घटपटस्तम्भकुम्भादयोऽप्यकारान्ताः पुल्लिङ्गाः। अकारान्तानामपि सर्वादीनां तु विशेषः । सर्व विश्व उभ उभय अन्य अन्यतर इतर डतर इतम कतर कतम सम सिम नेम एक पूर्व पर अवर दक्षिण उत्तर अपर अधर स्व अंतर त्यत् तद् यद् एतद् इदम् अदर दिकिम् युष्मत् अस्मत् भवत् । एते सर्वादयस्त्रिलिङ्गाः। तत्र पुल्लिङ्गनिरूपणम् । अकारान्तः सर्वशब्दः। सर्वः सौं।
आभिमुरव्येति । अभिमुखस्य भावः आभिमुख्यमभिमुखत्वं तस्याभिव्यतये प्रकटीकरणाय 'हे' शब्दः आदौ प्रयुज्यते इत्यर्थः । हेदेव । द्विवचने । औऔ औ । वहुवचने । सवर्णदीर्घः । स्रो० । अन्यानपि शब्दानाह एवमिति। कण्ठ्यं । अत्र काव्ये विभक्त्यर्थ दर्शयति । 'वृक्षस्तिष्ठति कानने कुसुमितं वृक्ष लता संश्रिता, वृक्षणाभिहतो गजो निपतितो वृक्षाय देयं जलम् ।। वृक्षादानय