________________
(५३)
स्वरान्त पुंल्लिङ्गप्रक्रिया ॥ १ ॥
नामि ।
नामि परे पूर्वस्य दीर्घो भवति । देवानाम् । सप्तम्येकव चने देव ङि इति स्थिते । अइए देवे । देवयोः । बहुत्व विवक्षायां देव सुप् इति स्थिते । पुकारः पित्कार्यार्थः । एस्भिबहुत्वे ।
नामि । नुद्रसहित आम् नाम् तस्मिन् नामि (स. ए. ) स्वर० । नुडागमसहिते आमि परे दीर्घो भवति इति दीर्घः । स्वर० । मोडनुस्वारः । आधारैकत्वविवक्षायां (स. ए. ) देव + ङि । अइए । सप्तमीद्विवचनं षष्ठीद्विवचनवत् । देवे च देवे च देवे चेत्येकशेषे सप्तमीबहुवचनं देव+सु इति स्थिते | एस्मि बहुत्वे । ततः सूत्रम् ।
क्विलात्षः सः कृतस्य ।
कवर्गादिलाञ्च प्रत्याहारादुत्तरस्य केनचित्सूत्रेण कृतस्य सकारस्य षकारादेशो भवति । देवेषु । अन्ते स्थितस्य तु न भवति सुपीः ।
क्विलात्षः सः कृतस्य । कुश्च इलश्च क्रिलं तस्मात् ( पं. ए.) ङसिरत् । सवर्णे ० । ( ष . ए . ) खो० । स ( ष. ए ) स्वर० । स्रो० । कृत ( ष . ए . ) ङस् स्य । सूत्रं सिद्धम्, वृत्तिः कण्ठ्या । न वरं केन चित् सूत्रेण कृतस्यैव सकारस्य षकारो भवति । नत्वकृतस्य । स्वाभाविकस्य अन्ते स्थितस्यापि सस्य षत्वं न भवति यथाहरिस्तत्रेत्यादौ न षत्वं तथा नुम्विसर्गान्तरेऽपि षत्वं यथा हवींषि विषु इत्यर्थः । अत्र ' सः षः ' इति कर्तव्ये पत् षः सः' इति विपरतित्वेन कृतं तत् क्वचित् किलं विनापि सस्य षत्वज्ञापनार्थम् । यथा अवष्टम्भः । अभ्यषुणोत् । देवेष्विति सिद्धम् । सम्बोधनमाह ।
"
आमन्त्रणे सिद्धिः ।
आमन्त्रणमभिमुखीकरणं तस्मिन्नर्थे विहितः सिर्धिसंज्ञो भवति ।
आमन्त्रणे । आमन्त्रयते आहूयते पुरुषोऽनेनेत्यामन्त्रणं तस्मिन् (स.ए.) अइए । सि (म.ए.) खो० । धि० (म. ए. ) खो० । आमन्त्रणमिति कोऽर्थः अभिमुखीकरणं अनभिमुखो अभिमुखः क्रियतेऽनेनेत्यमिमुमुखीकरणं तस्मिन्नर्थे