________________
५४६
सारस्वते तृतीयवृत्ती
क्विपू । किपू (म० ए० ) हसेपः एकपदं । सर्वधातुभ्यः किपू प्रत्ययो भवति । ककारो गुणप्रतिषेधार्थः नुग्विधानार्थच अन्ये तु प्रत्यया उदाहरणार्थानुसारेण य. थायोग्यं धातुभ्यः प्रयोज्याः । किपूप्रत्ययस्तु सर्वधातुभ्यो भवतीत्यर्थः । कृ कर्मन्पूर्व कर्म करोतीति विग्रहे किम० वि | सूत्रम् ।
ह्रस्वस्य पिति कृति तुक् । ह्रस्वस्य पिति कति परे तुगागमो भवति । कृति तुं । कर्म करोतीति कर्मकृत् । अग्निं चिनोतीति अग्निचित् । देवान् स्तौतीति देवस्तुत् । सोमं पि बतीति सोमपाः । सर्वं पश्यतीति सर्वदृक् । दिशाम् । इति कुत्वम् । विश् अतिसर्जने । दिशतीति दिक् । क्विपू । ह्रस्वस्य पिति कृति तुक् । ह्रस्व ( ष० ए०) ङस् स्य पित् (स० ए० ) स्वर० कृति० (स० ए०) तुक् ( प्र० ए० ) हसेपः । पिति कृति परे ह्रस्वस्प स्वरस्य तुगागमो भवति अनेन धातोः पुरतस्तुगागमो भवति किपः सर्वापहारी लोपः इति क्विप्लोपः (प्र० ए०) हसेपः कर्मन् इत्यत्र नाम्नो० कर्मकृत् । एवं अग्रि चिनोतीति अग्निचित् चिञ्चपने, देवान् स्वोति देवस्तुत टुमस्तुतौ आदेः ष्णः स्नः निमित्ताभावे इति स्य तः देवपूर्वः किप् प्रत्ययः तुगागमः क्विपः सर्वापहारीलोपः। पापाने सो
पूर्वः किपूम० सोमं पिबतीति सोमपा अत्र दीर्घत्वान तुगागमः (म० ए०) स्रो० । हरि, प्रेक्षणे दृशू सर्व पूर्वः सर्व पश्यतीति सर्वहक्कू क्विप् प्र० क्विपः सर्वापहारी लोपः दिशामिति शस्य कः ( प्र ए० ) हसे पः सर्वदृक् सर्वदृशौ इत्यादि । श्रश्वातुः सेवा यां श्रिः सुपूर्वः सुष्ठु श्रयतीति विग्रहे किपू ।
वचिप्रच्छयायतस्तुकट प्रुङ्जुश्रीणां दीर्घः संप्रसारणाभावश्व वक्तव्यः । वक्त्यनया सा वाक् वा उच्यते अनया सा वाक् । प्रच्छ ज्ञीप्सायाम् । तस्त्रपूर्वः । तत्त्वं पृच्छतीति तत्त्वप्राट् । छशषराजादेः षः । छोः शऊ वाच्यौ किति ङिति झसे परेSनुनासिके कौ च । तेन तत्रप्राच्छौ तत्त्वप्राच्छः। ष्टुत्र स्तुतौ। आयतं स्तौतीति आयतस्तूः । प्रुङ् गतौ । कटं प्रवतेऽसौ कटप्रूः । जु गतौ । जवतेऽसौ जूः । सुष्टु श्रयतीति सुश्रीः | वा सुष्टु श्रीर्यस्यासौ सुश्रीः । श्रयन्ते जना यामिति श्रीः । नहिवृतिव्यधिनु बिरुचिसहितनिषु क्विवन्तेषु पूर्वपदस्योपसर्ग