________________
कर्थप्रक्रिया |
मिथुनं मिथुनं संपद्यमानं तथा करणं इति मिथुनीकरणम् किं पाणिग्रहणम् । च्व्यन्तत्वादव्ययम् । अव्ययाद्विभक्तेलुक् । असहायः सहायः संपद्यमानस्तथा स्यात् इति सहायस्यात् । अकृष्णः कृष्णः यथासंपद्यमानस्तथाकरोतीति कृष्णीकरोति । हेतूकृतम् । अव्ययस्य न दीर्घत्वम् । अस्वस्ति स्वस्ति यथा संपद्यमानस्तथा स्यादिति स्वस्तिस्यात् । संपयकर्तरि किम् । अगृहे गृहे भवतीति गृहेभवति । अलुक् क्वचित् । इति विभक्तेरलुक् ।
दीर्घ ईचास्य | ब्वौ परे सति अकारव्यतिरिक्तस्वराणां दीर्घ अका1 रस्य च यद्वा अस्य अवर्णस्य ईकारो भवति अनव्ययस्य तु न उदा० कृ मिथुनपूर्वः अमिथुनं मिथुनं क्रियते इति विग्रहे भावे युद्ध यु अभूततद्भावे कृ अनेन मिथुनस्याये ईचास्येति अकारस्य ईकार: युवोरनाको गुणः स्वर० वेर्लोपः पुणो० भावत्वान्नपुंसकलिंगत्वं (म० ए० ) कुलशब्दवत् एवं मिथुनीकरोति मिथुनीभवति । मिथुनीस्यात् । भू शुकपूर्वः शुक्कभवनं शुकीभावः । घञ् भावे घञ् अ ञित्वादृद्धिः औ, भाव स्वर० च्वि अकारस्य ई वेर्लोपः एवं भूयोगे च्वि (म० ए० ) त्रो० अस् भुवि विधिसंभावनयोः यात अक० भदादेर्लुक् नमसोऽस्येत्यलोपः सहायपूर्वः असहायः स
यः स्यादिति विग्रहे च्व प्र०ईचास्य वेरिति वेर्लोपः सहायी स्यात् क्रियापदं अत्रभस् योगे च्वः कहेतुपूर्वः अहेतु हेतुतया कृतं हेतुकृतं क्तक्तवतू तम०म० च्वौ दीर्घः इति दीर्घः उकारस्य उकारः नपुंसकेति ।
च्वौ सलोपश्च । मनस् महस् रजस् इत्यादीनां सकारस्य लोपो भवति च्वौ प्रत्यये परे । द्वौ नञौ प्रकृत्यर्थमनुसरतः। उत्सुकं मनो यस्यासौ उन्मनाः। न उन्मनाः अनुन्मनाः। अनुन्मनाः उन्मनाः संपद्यमानस्तथाभाव इति उन्मनीभावः । विगतं मनो यस्याऽसौ विमनाः । नं विमनाः अविमनाः । अविमना विमनाः संपद्यमानः तथाभाव इति विमनीभावः । न विद्यते मनो यस्यासौ अमनाः । न अमना: अनमनाः । अनमनाः अमनाः संपद्यमानस्तथा भाव इति अमनीभावः ।
१४३