________________
. ५३०
सारस्वते सृतीयवृत्ती दुभत्र धारणपोषणयोः । आत्मानं बिभर्तीति आत्मचरिः, कुक्षिभरिः, उदरंभरिः। लुप्तविभक्तेश्च पदान्तत्वं विज्ञेयम् । अतःपरं वाचंयमान कथयति । वाचंयमादयो निपात्याः । वाचं यच्छतीति वाचंयमः। अत्र अकारो निपात्यते । वि दारणे । पुरं दारयताति पुरंदरः।तप संतापे । द्विषं तापयतीति द्विषंतपः। परंतपः । सर्व सहतेऽसौ सर्वसहः । विश्वं विधतीति विश्वभरः । भगं दारयतीति भगंदरः । तृ प्लवनतरणयोः। रथं तरतीति रथंतरः । वृञ् वरणे । पतिं वृणोतीति वा वृणुते सा पर्तिवरा । जि जये । धनं जयतीति धनंजयः। धृञ् धारणे । वसूनि वा वसु घरति वा धरते सौ वसुं'धरा शत्रु सहतेऽसौ शत्रुसहः । अरि दाम्यतीति अरिंदमः । शचुंतपः । एते वाचंयमादयः। । खितिपदस्य । ख इत् यस्य स खित् तस्मिन् (स०ए०) स्वर० पद (१० ए०) स्य खिति खकारेतमत्यये पूर्वपदस्प मुमागमो भवति । उकार उचारणार्थः। कृ क्षेमपूर्वः क्षेमकरः इखखि इति खमत्ययः अखकारो मुमागमार्थः खिविपदस्पेति मोनु० गुणः स्वर०। एवं प्रियं वदतीति प्रियंवदः,वशंवदः, कूलंकषः, अभ्रंलिहः, वाचंयमः, पुरंदर, भयंकरः, परंवपः, सर्वसहः, विश्वभरः,मितंपचः, विधुतुदः, सूर्यपश्यः, ललाटंतपः इत्यादि । दुभृञ् आत्मन्पूर्वः आत्मानं बिभर्तीति आत्मभरिः खिप्रत्ययः इ नानो० खिति पदस्प मोऽनु० स्वर० (म० ए०) स्रो० । एवं उदरंभरिः कुक्षिभरिः इत्यादयोऽपि ज्ञेयाः । सूत्रम् ।
एजा खश । एजृ कंपने इत्यादीनां खश् प्रत्ययो भवति । खकारो मुमागमार्थः । शकारः शिति चतुर्वत्कार्यार्थः । धातोः प्रेरणे । इति जिः प्रत्ययः । जनान् एजयतीति जनमेजयः।
ज्यन्तैर्जेमन्यतेर्मुञ्जकूलास्यपुष्पतो धये ॥ नाडीमुष्टिशुनीपाणिकरस्तनात्सनासिकात् ॥