SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ कर्थपक्रिया। वत्सनीह्योरेव । डकञ् करणे शकृत्करोतीति शरुत्करिः। का वत्सः । स्तम्बं करोतीति स्तम्बकरिः। का व्रीहिः। फले गृहातीति फलेग्रहिः। वा फलानि गृह्णातीति फलेग्रहिः वृक्षः। फलस्यैदन्तत्वं निपातनात् । रजो गृह्णातीति रजोग्रहिः मलग्रहिः । हर्ति हरतीति इतिहरिः । नाथहरिः । आप्ल व्याप्तौ । देवान् आमोतीति देवापिः । वातं आमोतीति वातापिः। . . करीषकूलसर्वाधारकपः प्रियवशाबदः ॥ ऋतिमेघश्यात्कृतः क्षेममद्रप्रियात्तु वा ॥ कष निष्कर्षे । करी करतीति करीषकषः। 'तत्तु शुष्क करीषोऽस्त्री' इत्यमरः । कूलं कषतीति कूलंकषः । सर्वे कपीति सर्वकषः । अभ्रं कषतीति अभ्रंकषः । खकारो मुमागमार्थः । वद व्यक्तायां वाचि । प्रियं वदतीति प्रियंवदः। वशंवदः । ऋर्ति करोतीति ऋर्तिकरः, मेषंकरः, भयंकरः । विकल्पपक्षे कार्ये अण् । क्षेमं करोतीति क्षेमकर:-क्षेमकारः। भद्रं करोतीति भद्रकरः भगकारः । प्रियं करोतीति प्रियंकर:प्रियकारः॥ आशिताच भुवो भावे करणे चतुराड्डजात् । विहायसः सुतोरोभ्यां हृदयाच जनाव प्लवाद ॥ गच्छतेः प्रत्ययः खः स्यानो धातोस्तु खिर्भवेत् । आत्मन्कुक्ष्युदरेभ्यः स्युस्तथा वाचंयमादयः॥ आशितेन भूयते इति आशितंभवम् । भावे नपुंसकता वाच्या । आशितो भवत्यनेनेति आशितंभव ओदनः । तुरं गच्छतीति तुरंगमः । भुजंगमः, विहंगमः, सुतंगमः, उरंगमः, हृदयंगमः, जनंगमः । प्लवेन गच्छतीति प्लवंगमः ।
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy