SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ उरसः । उरस्शब्दस्य उपपदस्प गमिधातौ परे सकारस्य लोपो भवति वा विकल्पेन नुगागमो भवति । गम् उरस्पूर्वः उरसा हृदयेन गच्छतीति उरगः रंगो वा। नानीति डमम टिलोपः स्वर उरस् इति सलोपः एकत्र मुमागमः नचा० एवं विहायसा आकाशेन विहायसि आकाशे वा गच्छतीति विहगः विहंगः। विहायसो विहश्च । विहायस्शब्दस्य विहादेशो भवति च. कारान्मुम्वा डान्ते गमौ । विहायसि आकाशे गच्छतीति विहगः विहङ्गः । भुजस्य च मुम्वा डप्रत्ययान्ते गमौ । भुजो वक्रार्थे । भुजं वक्र गच्छतीति भुजगः भुजङ्गः। विहायसो विहश्चेति चकारात तरस्तुरादेशः । मुम्वेति अनुवर्तनीयम् । तरसस्तुरादेशः तुरस्य मुम्बा डान्ते गमौ । तरसा वेगेन गच्छतीति तुरगः-नुरङ्गः। विहायसो विह च । विहायस्शब्दस्य विहादेशः मुमागमञ्च वा । डम. चकारात् भुज कुठिलं गच्छवीवि भुजगः। भुज् कौटिल्ये भुजगः भुजंग, वगःवंगः, तुरगः तुरंगः इत्यापि । सूत्रम् । अटौ। नाम्नि कार्ये च उपपदे सति अटी प्रत्ययौ भवतः। अस्थि हरतीति अस्थिहरः कः श्वा । कवचं हरतीति कवचहरः कुमारः । धृञ् धारणे । धनुर्धरतीति धनुर्धरःक्षत्रियो वा राजा । चर गतौ । कुरुषु देशेषु चरतीति कुरुचरः । ट ईबर्थः । ष्ठितः। स्त्री चेत् कुरुचरी, महीचरी, सेनाचरी, भिक्षाचरी, दीक्षाचरी । अप्रत्ययः सर्वधातुसाधारणः। टप्रत्ययस्तु चरादेव भवति। शोकं करोतीति शोककरी कन्या। यशः करोतीति यशस्करी विद्या। सृ गतौ। पुरःसरतीति पुरस्सरः अग्रे सरतीति अग्रेसरः। पावे शेतेऽसौ पार्श्वशय। तथैव पृष्ठे शेतेऽसौ पृष्ठशयः। उदरशयः। उत्तानादिषु कर्तृषु । उत्तानःशेतेऽसौ उत्तानशयः । स्तम्बे रमतेऽसौ स्तम्बेरमः हस्ती । जप जल्प व्यक्तायां वाचि । कर्णेजपः । ग्रह उपादाने । शक्ति गृहा.
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy