________________
समक्रिया ।
४७७
अचिकीर्षीत् । अचिकीर्षिष्टाम् । अचिकीर्षिषुः । ऋत इति तपरकरणात् ऋकारस्यैव इर् क्रियते । स विधिः सार्वत्रिको न । तेन ह्रस्वस्यापि ऋवर्णस्य इर् भवति । चित्र चयने । इच्छायां सूत्रम् ।
I
चिनोतेः से णादौ कित्त्वं वा वाच्यम् । चिकीषति, चिचीषति । जि जये । सपरोक्षयोर्जेर्गिः । जेतुमिच्छति जिगी - षति । यु मिश्रणे । युयूषति । डुपचष् पाके । यः से । पतुमिच्छति पिपक्षति । पातुमिच्छति पिपासति ।
चिनोतेः । चिनोतेर्धातोः समत्यये णादौ कित्त्वं वा वाच्यं । अनेन चस्य कः । ततो द्वित्वं । सूत्रम् ।
से दीर्घः । से परे पूर्वस्य दीर्घो भवति । चिञ् चयने ।
से दीर्घः । सप्रत्यये परे पूर्वस्य दीर्घो भवति । नैकस्वरात् षत्वं । स धातुः । चिकीषति । चिकीषां चकार । अचिकीष्यात् । कत्वाभावे । सेर्दीर्घः । अन्यत्साधनं तु पूर्ववत् । चिचीषति । चिचीषांचकार । अचिचीषीत् । जिजये । इच्छायां । सपरोक्षयोर्जेर्गि: । अनेन जस्य । ततः द्वित्वं । कुहाशुः । सेदीर्घः । षत्वं । नैकस्वरात् अनेन सूत्रेण । सर्वेषां एकस्वराणां धातूनां समत्यये परे इब् न भवति । इति ज्ञातव्यं । जिगीषति । जिगीषांचकार । सिलता । जिगषिता । अजिगीषीत् । युमिश्रणे । इच्छायां | यवितुमिच्छति इति विग्रहे । सप्रत्ययः । धातोर्द्वित्वम् । से दीर्घः। युयूषति । युयूषांचकार । यतः । युयूष्यात् । सिसता० । युयूषिता । युयुषिष्यति । अयुयूषिष्यत् । अयुयूषीत् । अयुयूषिष्टाम् । अयुयूषिषुः । डुपचषु पाके । पक्तुमिच्छति इति विग्रहे । इच्छायां द्वित्वं पूर्वस्य । यः से । चोः कुः । क्विलात् । कपसंयोगे० । स धातुः । पिपक्षति । पिपक्षांचकार । यतः । पिपक्ष्यात् । सिसता० ।पिपक्षिता । पिपक्षिष्यति । दिबादावट् । अपिपक्षिष्यत् । लुङ्लकारे द्वाविटौ । सेर्लो• पः । अपिपक्षीत् । अपिपक्षिष्टाम् । अपिपक्षिषुः । इत्यादीनि भवति । पा पाने । पातुमिच्छति । इति विग्रहे । इच्छायां । अनेन सः प्रत्ययः । धातोद्वित्वं च भवति । ह्रस्वः । यः से । पिपासति । चतुर्णां रूपाणि सुगमानि । लिट्लकारे । कासादि० । अनेनाम्प्रत्ययो भवति । पिपासांचकार । यतः । पिपास्यात् । सिसता० । पिपासिता । पिपासियत । अपिपासिष्यत् । अपिपासीत् । अपिपासिष्टाम् । अपिपासिपुः । एतेषां साधनं तु पूर्ववत् । ननु देवदत्तः काष्ठेन पिपक्षति । पक्तुमिच्छति । इत्यत्र काष्ठेनेति साधनस्य किं पाकेन संबंधः किं वा इच्छायां । इत्याशंकायामाह ।
गौणः प्रकृत्यर्थोऽन्यत्र सात् । प्रकृतिप्रत्यययोर्मध्ये प्रत्यया