SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ ४४० सारस्वते द्वितीयवृत्ती • साधनं सुगमम् । अविक्षत् । अविक्षताम् । अविक्षन् । मृश् आमर्षणे । तुदादेरः । मृशति । लिट् द्वित्वादिकं । रः । गुणः । ममर्श । ममृशतुः । ममृशुः । मशिथ । अत्वतः । ममष्ठे । मृश्यात् । गुणः। ष्ठत्वं । रारो० स्रष्टा । षढोः कः से । प्रक्ष्यति । बम्रक्ष्यत् । अनिटो नामिवतः । अनाक्षीत् । अम्राष्टाम् । अम्राक्षुः । ' कशादीनां० ) अनेन सेविफल्पः । तत्पक्षे । हशबान्तात् । अमृक्षत् । अमृक्षताम् । अमृक्षन् । वि. च्छतौ । आयः । अनेन आयः प्रत्ययः । तुदादेरः । अदे । विच्छायति । लिट् । विच्छायांचकार । अत्र कासादि० अनेनाम् । अनपि वा इति रक्तत्वात् । अनपि वा भवति । तत्क्षे विविच्छ । विविच्छनुः । विविच्छुः । विच्छायात् । अत्र । 'यसः । अनेन अकारस्य लोपः । आयाभावे। विच्छयात् । सिसता । विच्छायिता । विच्छिचा। विच्छायिष्यति । विच्छिण्यति । अविच्छायिष्यत् । अविच्छिण्यत् । लुङ्लकारे । द्वाविद्यौ । अविच्छायीत् । अविच्छीत् । इषु इछायाँ । तुदादेरः । गमेश्छः । इच्छति । लिट् । द्विश्व । गुणः । असवर्णे । इयेष । सवर्णे । ईषतुः । ईषुः । इत्या. दीनि । इण्यात् । इषु सह० । गुणः । एषिता । ष्टुत्वं । एष्टा । एषिष्यति । स्वरादे।। ऐषिष्यत् । लुङ् । ऐषीत् । छुप स्पर्शे । तुदादेरः । छुपति । चतुर्णा रूपाणि मु. गमानि । लिट् द्विश्च । गुणः। झपानां । चुच्छोप। छुप्यात् । गुणः छोप्ता । च्छोप्स्यति । अच्छोप्स्यत् । अनिटो नामिवतः। अच्छौप्सीत् । झसात् । अच्छौप्ताम् । अच्छौ मुः। लिश् गतौ । तुदादेरः। लिशति । लिट् । लिलेश । लिलिशतुः । लिलिशुः । लिलेशिथ । अत्वत० । लिलेष्ठ । लिण्यात् । गुणः । षत्वं । लेष्टा । षढोः कः से । लेक्ष्यति । अलेक्ष्यत् । हसषांता० । छशष० । षढोः कः से । षत्वं । कप० । अलिक्षत् । अलिक्षताम् । अलिक्षन् । खिद परिघाते । तुदादेरः । अनेनाप्रत्ययो भवति । मुचादेर्मुम् । अनेन मुमागमो भवति । नश्चापदान्ते झसे । अनेनानुस्वारः । खिन्दति । खिन्देत् । खिन्दतु । दिबादावट । अखिन्दत् । रूपाणि सुगमानि । लिट्लकारे । द्विश्वा पूर्वस्य । 'उपधाया लघोः' अनेन गुणः । विखेद । चिखिदतुः । चिखिदुः । इत्यादीनि । खिद्यातूं । खसे० । गुणः । खेचा। खेत्स्यति । अखेत्स्यत् । 'अनिठो नामिवतः अनेन वृद्धिः । अखैत्सीत् । झसात् । अनेन सेलोपः। तथोधः । अखैद्धाम् । अखैत्सुः । इत्यादीनि । पिष् अवयवे । तुदादेरः । मुचादेर्मुम् । पिंषति । चतुर्णा लकाराणां रूपाणि सुगमानि । लिट्लकारे । द्विश्च । पूर्वस्य । उपधाया लघोः । पिपेश । पिपिशतुः । पिपिशुः । पिपेशिथ । पिश्यात् । सिसता० । उपधाया लघोः । पेशिता । षत्वं । पेशिष्यति । विवादावट् । अपेशिष्यत् । लङ्लकारे द्वाविटी । अन्यत्साधनं तु, पूर्वसदृशम् । अपेशीत् । अपेशिष्ठाम् । अपेशिषः । इत्यादीनि । इति परस्मैपदिनो धातवः कथिताः ।
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy