SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ सारस्वते द्वितायवृत्तौ लान्तस्याकारस्य सौ नित्यं वृद्धिर्वाच्या । अफालीत् । जि जये । जयति, जयेत् जयतु अजयत् । २२८ लान्तस्या० । धातोरकारस्य सौ परे नित्यं वृद्धिर्वाच्या । अनेन नित्यवृद्धिः । अफालीत् । जि जये । गुणः । जयति । लिट्लकारे जि जि णपिति स्थिते सूत्रम् । सपरोक्षयोर्जेर्गिः । सप्रत्यये परोक्षे च जि जय इति धातोगिरादेशो भवति । जिगाय जिग्यतुः जिग्युः । जिगयिथजिगेथ । जीयात्, जेता, जेष्यति, अजष्यत्, अजैषीत्, अजैष्टाम्, अजैषुः । कृष् विलेखने । कर्षति, कर्षेत् कर्ष - तु, अकर्षत्, चकर्ष । उपधाया लघोः । चरुषतुः चकृषुः । चकर्षिध । कृष्यात् । गुणे कृते । सपरोक्षयोर्जेर्गि: । सच परोक्षश्च सपरोक्षौ तयोः सपरोक्षयोः (स.द्वि.) जेः (ष.ए.) गिः (म.ए.) त्रिपदं सूत्रं सप्रत्यये च परोक्षे णवादौ परे सति जि जय इति धातोर्गिरादेशो भवति । अनेन गिरादेशः । द्विश्च । धातो० । कुहो श्रुः । अनेन गकारस्य जकारः । जिगाय । नुधातोः । अनेन यकारः । जिग्यतुः । ये । जीयात् । जेता । अनिटोऽनेन वृद्धिः । अजैषीत् । कृष विलेखने । पूर्ववत् । उपधायाः । कर्षति । लिट्लकारे द्विश्वरः । कुहोक्षुः । उपधायाः । स्वर० । चकर्ष । चकृषतुः । चकर्षिथ । कृष्यात् । कृष् ता इति स्थिते । उपधायाः । कूअरूप् ता इति जातम् । तत्र सूत्रम् । रारो झसे दृशाम् । श्सृज्कृष्मृतृपढप्सृपां झसे परे अरो र भवति । रार इति तन्त्रोपात्तं तेन रा आरः र अरः । सकृदुच्चरितमनेकोपकारकं तन्त्रम् । ष्टुत्वम् । ऋष्टा । रोझसेां । र (म. ए. ) अरः (ष. ए.) झसे (स. ए. ) दर्शा (प. ब. ) हबे । उओ । दृशादीनां दृश् स्पृश् पृश् सृज् कृष् ग्रूप दृप् तृप् इत्यादीनां धातूनां संबन्धिनोsर् इत्येतस्यावयवस्य झसे परे र इत्यादेशो भवति । सस्वर एवादशो भवति । तत्र द्रष्टव्य इत्यादौ रस्यैव दर्शनात् । अरो रो भवति । अर् इति निर्देशात् दृशादीनां गुणोऽपि सूचितस्तेन पूर्वं गुणं विधाय पश्चात् रकारः कार्यः । इत्यभिप्रायः । रा र इति तंत्रोपात्तं तेन रा आरः र अरः सकृदुच्चरितमनेकोपकारकं
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy