________________
३२६
सारस्वते द्वितीयवृत्तौ
आदन्तानाम् । आदन्तानां यमिरमिनमीनां सेरिट्चैतेषां धातूनां सगामम एतौ द्वौ परस्मैपदे वक्तव्यौ । अनेनास्येट्सकौ भवतः । तदा अपम् स इद्दू सि ईट् दिपिति स्थिते । ककारः टकारश्चेतौ । इट ईटि । सवर्णे । दिसिमि । पकारः । स्वरहीनं० | वावसाने । हृयन्त० अनेन वृद्धेरभावो भवति । न श्वापदान्ते । अनेन मकारस्यानुस्वारो भवति । अयंसीत् अयंसिष्टाम् । अयंसिषुः समाप्तोयम् । णमु हृत्वे शब्दे च पूर्ववत् तिबादयः । आदेः ष्णः स्त्रः । अनेन णकारस्य नकारी भवति । नमति | लिट् लकारे । अत उपधायाः । ननाम । लोपः । नेमतुः । नेमुः । नेमिथ । अत्वतः । ननन्थ । अन्येषां लकारणां रूपाणि मूले उक्तानि । लुङ् लकारें आदन्तानाम् । अनेनेट्सकौ भवतः । हयन्त० अनेन वृद्धेरभावः । अनंसीत् । अनंसिंष्टां । अनंसिषुः । अयं धातुरनिट् । गम्लृ गतौ । ऌकारो ऌदित्कार्यार्थः । गम् अप् तिपिति स्थिते । गर्मा छः । अनेन मकारस्य छकारः । स्वर० । छः । खसे । गच्छति । गम् णपिति स्थिते । द्विश्च । पूर्व० । कुहोश्शुः । अत उपधायाः । जगाम । जगम् अतुस् इति स्थिते सूत्रम् । गमां स्वरे । गर्मी ( ष. ब. ) स्वरे ( स. ए. ), द्विपदं सूत्रम् ।
गमां स्वरे । गम् हुन् जन् खन् वस् एतेषामुपधाया लोपो भवति ङ्कित्य स्वरे । जग्मतुः जग्मुः । जगमिथ जगन्थ । गम्यात्, गन्ता ।
गम् हन् जन् खन् घस् एतेषां धातूनां किति च ङिति स्वरे परे उपधाया लोपो भवति स्वरे । अनेनोपधाया लोपो भवति । स्वर० । जग्मतुः । जग्मुः जगमिथ | अत्व० | नश्चा० । जगन्ध । अन्यानि मूले सन्ति । तथापि लिखामि 1. गन्ता । गम् स्यप् तिपिति स्थिते सूत्रम् ।
हनुतः स्यपः । हन्तेर्ऋकारान्तात्स्यप इडागमो भवति । ग मेश्व पे । गमिष्यति, अगमिष्यत् ।
हनृतः स्यपः । हन् च ऋतु च नृत् तस्मात् हनृतः (पं. ए.) स्पपः ( प. ए. ) हन्तेर्ऋकारान्तात् धातोः स्यप इडागमो भवति गमेश्च परस्मैपदे । अनेनेट् । गमिष्यति । अगमिष्यत् । सूत्रम् ।
लित्पुषादेर्डः । लितो धातोः पुषादेर्युतादेश्व उप्रत्ययो भवति दिबाद परस्मैपदे । सेरपवादः । अङे इत्युक्तेर्नोपधालोपः । अगमत् अगमताम् अगमन् । इषु इच्छायाम्