________________
-
सारस्वते द्वितीयवृत्तौ
योतिष्यत् अच्युतत् अध्योतीत् । मन्थ विलोडने । मन्थति मन्धेत् मन्धतु अमन्यत् ममन्थ ।
शसात खपाः । शसात् (पं. ए. ) खपाः (प्र. ब. ) द्विपदं सूत्रम् । संयोगपूर्वस्य धातोद्वित्वे कृते सति यत्पूर्वरूपं द्वित्वसंबन्धि तस्य शसखपसंयोगे सति शसादुत्तरा अग्रे वर्तमानाः खपाः शिष्यन्ते रक्ष्यन्ते न शसाः आदौ । वर्त्तमानाः शसा लुप्यन्त इत्यर्थः । अनेन शकारस्य लोपः कार्यः । पुनः पूर्वस्य हसादिः शेषः इति सूत्रेण तकारस्य लोपः कार्यः । गुणः । स्वरहीनं० । चुश्योत | चुश्युततुः । चुऋतुः । सुयोतिथ | चुश्चयुतथुः । चुऋयुत । चुश्योत । चुऋयुतिव । चुभ्युतिम | मधुं यतेत्युदाहरणम् । लिङ् । श्रयुत्यात् । श्रयुत्यास्तां । श्रूयुत्यासुः । लृट् | *योतिता । योतितारौ । योतितारः । लृट् । श्योतिष्यति । श्योतिष्यतः । श्रयोतिष्यन्ति । लङ् । अश्चयोतिष्यत् । अयोतिष्यतां । अञ्ज्योतिष्यन् । लुङ् । अस्मि लकारे साधनं तु पूर्ववत् । अयोतीत् । अयोतिष्टाम् । अयोतिषुः । समाप्तोऽयं धातुः । मन्थ विलोडने । लट् मन्यति । मन्थतः । मन्थन्ति । लिङ् | मन्येत् । मन्थे । मन्थेयुः | लोट् । मन्धतु-मन्थतात् । मन्थतां । मन्थन्तु | लहू | अमन्थ
त्' । अमन्थताम् | अमन्थन् । लिट् । ममन्थू । ममन्थ् अतुस् इति स्थिते सूत्रम् । नो लोपः । धातोरुपधाभूतस्य नकारस्य लोपो भवति किति ङिति च परे । इत्युपधानकारलोपे प्राप्ते
३०६
नो लोपः । नः (ष. ए. ) लोपः (प्र. ए. ) द्विपदं सूत्रम् । धातोरुपधाभूतस्य नकारस्य अर्थात् नकारस्थानीयानुस्वारस्य किति ङिति च परे लोपो भवति । अत्र लोपाधिकारे नकारस्यादेशरूपस्यानुस्वारस्य लोपः । अनेन मूत्रेण नकारस्य लोपे प्राप्ते सति ।
ऋसंयोगात् णादेरकित्त्वं वाच्यम् । तेन नलोपाभावः । ममन्यतुः ममन्थुः । ममन्थिथ ममन्थथुः ममन्थ । ममन्थ ममन्थिव ममन्थिम ।
असंयोगात् इदं वार्त्तिकम् । ऋश्च संयोगश्च ऋसंयोगं तस्मात् संयोगात् (पं. ए.) ण आदिर्यस्य स णादिः तस्य णादेः । कितो भावः कित्त्वं न कित्त्वम् अकित्त्वं (प्र. ए. ) वाच्यं (प्र. ए. ) ऋकारान्तात् संयोगान्तात् धातोश्च णादेरकित्त्वं वाच्यम् । अस्य धातोः संयोगत्वात् । अनेन सूत्रेण नकाररय लोपाभावो भवति । स्वरहीनं० । स्रोर्विसर्गः । ममन्धतुः । ममन्धुः । वार्तिकम् ।