________________
(२४८)
सारस्वते प्रथमवृत्ती वाऽक् । एभ्योऽपत्ये इन् तद्योगेवैमन्तस्य अक् आदेशः । वैयासकि, वारुटकि, सौधातकिः, नैषादिकिः, बिम्बकी, चाण्डालकिः । सूत्रम् ।
ण्यायनणेयण्णीयागर्गनडात्रिस्त्रीपितृष्वस्रादेः । गर्गादेनंडादेरठ्यादेः स्त्रीलिङ्गात्पितृष्वस्त्रादेश्च ण्य आयनण् एयण णीय इत्येते प्रत्यया भवन्ति अपत्येऽर्थे यथासंख्येन । चकारात्पितृष्वनादेरेयणप्रत्ययो भवति । गर्गस्यापत्यं गार्ग्यः । वत्सस्यापत्यं वात्स्यः। जमदग्नेरपत्यं जामदग्न्यः । सोमस्यापत्यं सौम्यः । नडस्यापत्यं नाडायनः । चरस्यापत्यं चारायणः। चन्द्रस्यापत्यं चान्द्रायणः । अलुक् क्वचित् अमुष्यापत्यमामुष्यायणः । यस्य लोपः। अत्रेरपत्यमायः। मृकण्डस्यापत्यं मार्कण्डेयः । कपेरपत्यं कापेयः । गङ्गाया अपत्यं गाङ्गेयः । मह्या अपत्यं माहेयः । क्वचित्स्त्रीलिङ्गादण्भवति । भूमेरपत्यं भौमः ॥ मातृपितृभ्यां वसा । मातृपितृभ्यां शब्दाभ्यां परस्य स्वमृशब्दस्य सकारस्य षकारः स्यात्समासे सति । पितुःस्वसा । पितृष्वसा । पितृवसुरपत्यं पैतृष्वस्त्रीयः । मातुःस्वसा मातृष्वसा । मातृध्वसुरपत्यं मातृष्वस्त्रीयः ॥ ढकि लोपः । मातृष्वसुरन्तस्य लोपः स्याडकि । अतएव ढक् ॥ आयनेयीनीयियः फढछखधा प्रत्ययादीनाम् । प्रत्ययादिभूतानां फादीनां क्रमादायन्नादय आदेशाः स्युः । आयन एय् ईद ईय् इय् एते आयन्नादयः ॥ किति च । किति तद्विते परे अचामादरचो वृद्धिः स्यात् । पैतृष्वसेयः ॥ मातृष्वसुश्च । पितृष्वसुर्यदुक्तं तदस्यापि स्यात् । मातृष्वस्त्रेयः ॥ मातृपितृभ्यां पितरि डामहच् । आभ्यां परो डामहच् प्रत्ययो भवति । मातुः पिता मातामहः । पितुः पिता पितामहः। प्यायनणेयणीयाःगर्गानडेति । ण्यश्च आयनण् च एयण्च णीयश्च