SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ ( १९२ ) सारस्वते प्रथमवृत्तौ ग्रामं तीर्थं वर्त्तते । निकषा ग्रामं हतः शत्रुः । ग्रामस्य समीपे इत्यर्थः । धिग् देवदत्तमिस्पन धिग्पोगे द्वितीया । " धिक् तां च तं च मदनं च इमां च मां च" उपर्युपरि ग्रामं पक्षिणो गच्छन्ति । उपर्युपरि ग्रामं मेघा वर्षन्ति ग्रामस्य उपरि इत्यर्थः । अधोऽधोग्रामं निधानं दृश्यते । ग्रामस्य अध इत्यर्थः । अध्यधिग्रामं । ग्रामेग्रामे तापसास्तिष्ठन्ति । एवमित्यत्र त्रिष्वप्याम्रेडितान्तेषु द्वितीया ततोऽन्यत्रापि दृश्यते इति व चनात् उभयतः, परितः, समया, निकषा, हा, प्रति, अनु, एषां योगेऽपि द्विती या । समया ग्रामं तीर्थं वर्त्तते, ग्रामस्य समीपे तीर्थम् । निकषाग्रामं शत्रुनिहतः । प्रा मस्य समीपे इत्यर्थः । अनुग्रामं ग्रामस्य अनु पश्चात् सीमा वर्त्तते । एवं ग्रामं ग्रामं प्रति प्रतिग्रामं जिनालयानि सन्ति । हा स्वामिनम् । इत्यादि । कालाध्वननैरन्तर्ये । अविच्छिन्नसंयोगत्वं नैरन्तर्यम् । कालाध्ववाचकशब्दानां नैरन्तर्येऽर्थे वाच्ये सति द्वितीया विभक्तिर्भवति । मासमधीते देवदत्तः । कोशं पर्वतः । नैरन्तर्ये किम् । मासस्य द्विरधीते । क्रोशस्यैकदेशे पर्वनः । ॥ इति द्वितीया ॥ 1 - कालाध्वनोरिति । अन्तरेण रहितत्वं नैरन्तयं तस्मिन् नैरन्तर्ये वाच्यमाने तथा । कालो दिवसमासादिः । अध्वा मार्गः क्रोशयोजनादिस्तत एतयोर्द्वयोर्विषये द्वितीया कार्ये नैरन्तर्येऽर्थे कालवाचकशब्दात् अध्ववाचकशब्दाच्च द्वितीया भवतीत्यर्थः । तत्रोदाहरणं काले, मासमधीते । मासं । यावत् निरन्तरम् अधीते पठति अत्र नैरन्तर्ये द्वितीया । अन्यथा मासस्य द्विरधीते मासे वा दश दिवसानधीते इति भवति । एवं मार्गे क्रोशं पर्वत इति क्रोशं यावन्निरन्तरं पर्वत इत्यर्थः, क्रोशममाण लम्ब इत्यर्थः । अन्यथा क्रोशस्य एकभागे पर्वत इति स्यात् । इति द्वितीयार्थः । अन्यत्रापीति ग्रहणात् अन्तर्ग्राममुपग्राममित्यादयः शब्दा ज्ञेयाः । इति द्वितीया । अथ तृतीयार्थसूचकं कर्तृसाधनयोरिति पदं व्याचिख्यासुराह । कर्त्तरि प्रधाने क्रियाश्रये सांधने च । प्रधाने कर्तरि क्रियासिद्धधुपकारके करणेऽर्थे च तृतीया विभक्तिर्भवति । क्रियायाः परिनिष्पत्तिर्यद्व्यापारादनन्तरम् ॥ विवक्ष्यते यदा यत्र करणं तत्तदा स्मृतम् ॥ भिन्नः शरेण रामेण रावणो लोकरावणः ॥
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy