SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ ( १९० ) सारस्वते प्रथमवृत्तौ 'भूयते क्रियालक्षणतया अनेनेति भावः । तत आधारश्च भावश्च आधारभावौ तयोः (स.द्वि.) ओसि । ए अय् । स्वर०स्रो० पश्चात् ए अय् खोर्लोपश्वा । सिद्धं सूत्रम् । सप्तपदम् । शेषाः प्रथमा उक्ता, अतः शेषा द्वितीपाद्याः षड् विभकय इत्यादिवृत्तिः । तत्र कार्ये द्वितीया, कर्तृसाधनयोस्तृतीया, दानपात्रे चतुर्थी, विश्लेषावधी पञ्चमी, संबन्धे षष्ठी, आधारभावयोः सप्तमी, इति संक्षेपार्थः । अथ विस्तरार्थः । कार्य इत्यादि । कार्ये द्वितीया विभक्तिर्भवतीति योगः । कार्ये इति कोर्थः । कर्मकारके क्रियते यत्तत्कर्म कर्म नाम कारकं कर्म्मकारकं तस्मिन् कर्तुः कर्म्मताने वस्तुनीत्यर्थः । यद्वा कार्यं कर्म तत्कारक संज्ञत्वात्कारकं कर्म कारकं षष्ठों विना अन्या विभक्तयः कारकसंज्ञाः । क्रियाहेतुः कारकं षष्ठ्यास्तु क्रियाहेतुत्वाभावान्न कारकसंज्ञा । यतः " कर्त्ता १ कर्म २ च करणं ३ संप्रदानं ४ तथैव च । अपादाना ५ धिकरणे ६ इत्याहुः कारकाणि षट् " इति । तस्मिन् कम्र्मकारके कथंभूते इत्पत ar | उत्पाद्ये आये संस्कार्ये विकार्ये च एवं चतुर्विधे तत्र उत्पाद्ये यचवीनं क्रियते तदुत्पाद्यं, यदाप्यते सिद्धमेव प्राप्यते तदाप्यम्, संस्क्रिपते इति संस्कायं, संस्कारो नाम कश्चिदतिशयस्तदहं संस्कार्थं । संस्कारो द्विधा गुणाधानं मलापकर्षो वा । पूर्वजन्मकृतः शुभाशुमो वा संस्कारः तस्माद्भर्व संस्कार्थं रूपं पश्यतीत्यर्थः । अत्र गुणाधानं यद्वा रूपमिति चक्षुग्रह्मत्वादायमिति केचित् । राज्यमिति राज्ञः संस्कारात संस्कार्यम् । विकारेति । विक्रियते अवस्थान्तरं भजते इति विकार्य, ततः एवं चतुर्विधेनि कर्मकार के द्वितीया विभक्तिर्भवति । उदाहरणम् । कटभित्य, दिश्लोकः । कारूकः पुमान् कटं करोतीत्यत्र कटस्थ उत्पाद्यकार्यत्वात् द्वितीयान्तत्वम् । एवं चाक्षुषो नेत्रवान् जनो रूपं पश्यतीति रूपम् आप्पं कम्मे तत्र द्वितीया । केचित् - पस्य नेत्रेन्द्रिये गुणस्थापनेन संस्कार्ये द्वितीया । धर्मिष्ठः पुमान् राज्यं प्राप्नोति । अत्र राज्यं संस्कार्यम् । आप्यं केचित् । राज्यं प्राप्यमिति तत्र द्वितीया । सोमम अमृतव छीरसं पिवतीति सोमपाः ब्राह्मणः । सोमम् अमृतवल्लीं सुनोति खण्डयतीत्यर्थः । अत्र सोमस्य अमृतवल्याः खण्डनरूपो विकारस्तत्र द्वितीया । अवस्थास्तरापादनं विकार इति । एवं द्वितीयार्थमाख्यायाधुना तदधिकारात्पुनर्वृत्तिकार उपपदद्वितीयार्थमाह । अभिसर्वसोः कार्या धिगुपर्यादिषु त्रिषु ॥ द्वितीयाम्रेडितान्तेषु ततोऽन्यत्रापि दृश्यते ॥ अभितो ग्रामं, सर्वतो ग्रामं नदी वहति । धिग्देवदत्तं, देव
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy