________________
(१८८ )
सारस्वते प्रथमवृत्तौ
रुध्वम् । अत्र गोविन्द, परमेश्वर, प्र. ए. । कुमारौ प्र. द्वि । तपस्विनः म.ब. इत्यत्र यथाक्रमं प्रथमाया एकद्विबहुवचनानि ।
भोस् भगोस् अघोस् । एते शब्दा निपात्यन्ते धिविषये । भवद्भगवदघवच्छब्दानां भोस् भगोस् अघोस् इत्येतच्छब्दरुपत्रयं क्रमेण निपात्यते ।
क्षमस्व भो दुराराध्य भगोस्तुभ्यं नमोऽस्तुते ॥ अधीष्व भी महाप्राज्ञ घातयाघोः स्ववस्मरम् ॥ ॥ इति प्रथमा ॥
भोस् भगोस् अधोस् । मोस् (प्र.व.) स्वर० स्रो० एकस्प ग्रहणे तब्जातीयान्यशब्दस्य ग्रहणमिति न्यायागोसे इत्यनेन भोस्, भगोस्, अघोस्, इत्पन्न त्रयाणामपि ग्रहणम् । सूत्रपाठे तु भोस भगोस् अघोस् इत्येव सूत्रं दृश्यते । तेन 'भवन्' इत्यस्य ' भोस्' इति निपातः । ' भगवन् ' इत्यस्य 'भगोस्' इति निपातः । ' अघवन् ' इत्यस्य ' अघोस् ' इति निपातः । यतः भवद्भगवदघवत भोस्, भगोस्, अघोस्, एते शब्दा वा निपात्यन्ते धौ विषये । संबोधने इत्यर्थः । भोः इत्यामन्त्रणे । भगोः इति पूज्यामन्त्रणे । अघोः इति पापजनवाचिनः संबोधनविषये । एते शब्दा निपात्यन्ते । उदा० भो दुराराध्य | दुःखेनाराध्यत इति दुराराध्यस्तस्यामन्त्रणं भो दुराराध्य त्वं क्षमस्व क्षमां कुरु । न विद्यते स्तुतिर्वचनगोचरा यस्य स अस्तुतिस्तस्पामन्त्रणं हे अस्तुते वचनगोचरस्तवनातीत इति संबोधनपर्व, यद्वा न स्तौति अन्यं कंचित् जनमिति अस्तुत् तस्मै अस्तुते तुभ्यमिति चतुर्थ्यन्तम्। एवंविध हे भगोः हे भगवन् तुभ्यं नमः । 'भगोस्तुभ्यं नमोनमः' इति पाठे तु सुगमम् । भो महाप्राज्ञ | महांश्चासौ प्राज्ञश्च महामाज्ञस्तस्यामन्त्रणं भो महाप्राज्ञ त्वम् अधीष्व पठ | हे अघो हे पापिष्ठ स्वघस्मरं स्वभक्षकम् अर्थात् स्वपापं कालं वा घातय विनाशयेति श्लोकार्थः ॥ १ ॥ इत्यं प्रथमार्थमुक्त्वेदानों द्वितीपादिशेषविभक्त्यर्थ सूचकं सूत्रमाह ।
शेषाः कार्ये कर्तृसाधनयोर्दानपात्रे विश्लेषावधी संबन्धे आधारभावयोः ॥ कर्तृसाधनयोर्दानपात्रे विश्लेषावधौ संबन्ध आधारभावयोः शेषा विभक्तयो द्वितीयाद्या एष्वर्थेषु भवन्ति ।
'' भात ' इत्येव सूत्रमिति केचित् तन्मते ददं व्याख्यानम् ।
.