________________
(१७२)
सारस्वते प्रथमवृत्तौ। धा,कृत्वस शस,णम्, वत्, आम् प्रत्ययान्तः शब्दः । तदपि अव्ययसंज्ञमित्यर्थः। यथा कृत्वा, दत्वा, कत्तुं, भोक्तं, मणिपत्य, प्रणम्य, द्विधा, विधा, चतुर्धा, पञ्चकृत्वः, सप्तकृत्वः, बहुशः, पदशः, कारंकारम्, पायंपायम्, घटवत् पटवत्, द्विः, त्रिः इत्यादि । ततः किं कार्यमित्याह । सूत्रम् ।
अव्ययादिमक्तेलृक् । अव्ययात्परस्या विभक्तेलुग् भवति। आपश्चेति वक्तव्यम् ।
अव्ययाद्विभक्तेलक् । अव्यय (पं. ए.) सिरत् सवर्णे विभक्ति (प ए.) जितिस्य चपा अवे लुक् (म. ए.) हसेपः० नामिनोरः । सिद्धम् । अव्ययात्परा या विभक्तिस्तस्य लुग्भवति तत्रापि विशेपमाह ।
न शब्दनिर्देशे। अव्ययानां शब्दत्वेन रूपनिर्देशे सति विभक्तरलुग्भवत्यव्ययानां न च लिङ्गादिनियमः। तदुक्तम् ।
न शब्दनिर्देशे । नतु शब्दनिर्देशे विभक्तेढुंग् भवति । शब्दस्य रूपवन प्रतिपादनं शब्दनिर्देशः । अव्ययस्य नामग्रहणं न तु तदर्थवाचकत्वमित्यर्थः। यथा अवाप्योरुपसर्गयोरिति । तथा द्वितीयवृत्तौ क्रीडोऽनुसंपरिभ्यः। समवोपविभ्यस्थः! उद्विभ्यां तपः। इत्यादौ शब्दनिर्देशत्वादव्ययात्परस्थाया अपि विभक्तेन लुक् च। पुनः अव्ययानां लिङ्गादिनियमो नास्ति लिङ्गविभक्तिवचनभेदो न । अस्मिन) पाणिनी यानां संमतिमाह । श्लोकः।
सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु ॥ वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥ समिति । यविषु लिङ्गेषु पुबीनपुंसकेपु सदृशं च पुनः सर्वासु प्रथमा. दिप सप्तम्पन्तामु विभक्तिषु सदृशं, सर्वेषु च एकद्विबहुवचनेषु सदृशं समानरूपं पन्न व्येति व्ययं न याति रूपान्तरं न भजते तदव्ययमित्युच्यते । अव्ययोपसंहारम् अंग्रे. तनसूत्रसम्बन्धं च व्याचिकीर्षुः फक्किकामाह ।
उक्तान्यलिङ्गान्यव्ययानि ॥ इति आदेशविशेषप्रक्रिया ॥
उक्तानीति । अव्ययानि उक्तानि कथितानि । किंभूतानि अलिङ्गानि पुंस्त्वादिलिङ्गभेदहितानि । ॥ इत्यव्ययसंग्रहः ॥
अधुना लिङ्गविशपविजिज्ञापयिपया स्त्रीप्रत्ययाःप्रस्तूयन्ते।