________________
हसान्तपुंल्लिङ्गमक्रिया ॥४॥ (१३३) मास्वरे। मः (१० ए० ) स्वरे (स० ए०) वृत्तिः सुगमा । 'पुम्स स्' इति स्थिते वितो नुमिति नुमागमः पञ्चस । न्समहत् इति धिवर्जमन्यत्रदीर्घः। सोधौ च इसेपः इति सिलोपः। संयोगान्तस्येति स् लोपः। अग्रे द्वितीयाद्वित्वं यावत् नश्चापदाते० स्वर० 1 पुमान् पुमांसौ पुमांसः। पुमन् हेपुमांसौ हेपुमांसः । पुर्मासं पुमांसौ । शसादौ नश्चा० । स्वरापुंसः पुंसा । भकारादौ संयोगान्तस्यलोपः। नश्चा। ' एवं मुपि संयोगान्तस्य लोपः। नश्चा०। पुंसु । अथ रूपांतरं साधयति । सूत्रम् ।
असंभवे पुंसः कक सौ॥असंभव इति कोऽर्थः । वेदान्तैकवेद्यस्य परमात्मनो बहुत्वासंभवे वाच्ये सति पुंसशब्दस्य कगागमो भवति सुपि परे । ककारः कित्कार्यार्थः। अकार उच्चारणार्थः। असंभव इति । असंभवे वैदिकमयोगे । असंभवो नाम वेदान्तैकवेद्यस्यात्म नो बहुत्वाऽसंभवः। न विद्यते आत्मनो ब्रह्मणो बहुत्वसंभवो यत्र सोऽसंभवः यतः 'एकमेवाद्वितीयं ब्रह्म इति वेदान्तवेद्यस्य वेदान्तशास्त्रेण वेद्यस्य ज्ञेयंस्प आत्मनों बहुत्वासंभवः। अथवा नास्ति संभवो बुद्धेः सूत्रादेश्च यत्र सोऽसंभवस्तस्मिन् वाच्ये सति पुंस्शब्दस्य साविति सुपि परे कगागमो भवति भनेन पुंस् अग्रे कू कित्त्वादन्ते । सूत्रम् ।
स्कोरायोश्च । संयोगायोः सकारककारयोलोपो भवति धातोझसे परे नानश्च रसे पदान्ते च । किलात् इति सस्य षत्वम् । कषसंयोगे क्षः। पुंक्ष। ननु पुश्वित्यत्र मकार एव संयोगादिर्न सकारतहि कथं लोपः । अत्र स्कोरायोश्चेत्यनेन संयोगाद्यस्य लोपे प्राप्ते मकारस्यैव लोपो भवेन्न तु सकारस्य । आदिवाभावात् । संयोगाद्यस्तु पुंस इत्यत्र शिरसि मकार एव । तस्मादादित्वं द्विविधम् । मुख्यमापेक्षिकं च । अत्र सस्यादित्वमापेक्षिकम् । पुंस क इत्यत्र ककारापेक्षया सकार आदिः सकारापेक्षया मकार आदिरिति सकारस्यैव लोपः। हेपुमन हेपुमांसौ हेपुमां