________________
[६६] न्तासहितं भवति । स्थिररूपं त्वभ्याससौष्ठवेन निर्वाधकमेव जायमानं तज्जातीयत्वेन बाधकचिन्ताप्रतिघाताच्छुद्धिविशेपेण तदनुत्थानाच तद्रहितमेव भवतीति । 'सर्व' स्थानादि स्वसिन्नुपशमविशेषादिफलं जनयदेव परार्थसाधक-स्वसन्निहितानां स्थानादियोगशुद्धयभाववतामपि तत्सिद्धिविधानद्वारा परगतस्वसदृशफलसंपादकं पुनः सिद्धिर्भवति । अत एव सिद्धाऽहिंसानां समीपे हिंसाशीला अपि हिंसां कर्तुं नालम् , सिद्धसत्यानां च समीपेऽसत्यप्रिया अप्यसत्यमभिधातुं नालम् । एवं सर्वत्रापि ज्ञेयम् । 'इतिः' इच्छादिभेदपरिसमाप्तिसूचकः । अत्रायं मत्कृतः संग्रहश्लोकः--" इच्छा तद्वत्कथाप्रीतिः, पालनं शमसंयुतम् । पालनं (प्रवृत्तिः) दोपभीहानिः स्थैर्य सिद्धिः परार्थता ॥१॥" इति ॥६॥ उक्ता इच्छादयो भेदाः, अथैतेषां हेतूनाहएए य चित्तरूवा, तहाखओवसमजोगो हुंति। तस्स उ नद्धापीयाइजोगो भव्वसत्ताणं ॥ ७ ॥ ___ 'एए यत्ति । ' एते च ' इच्छादयः 'चित्ररूपाः' परस्परं विजातीयाः स्वस्थाने चासङ्खयभेदभाजः, 'तस तु' अधिकृतस्य स्थानादियोगस्यैव श्रद्धा-इदमित्थमेवेति प्रतिपत्तिः, प्रीतिः-तत्करणादौ हर्षः, आदिना धृतिधारणादिपरिग्रहस्तद्योगतः ‘ भव्यसत्त्वानां' मोक्षगमनयोग्यानामपुनर्वन्ध