________________
[२२] योऽनियतविपाकस्तस्य त्रयी गतिः, कृतस्याविषकस्य नाशः, प्रधानकर्मण्यावापगमनं वा, नियतविपाकप्रधानकर्मणाभिभूतस्य वा चिरमवस्थानमिति । तत्र कृतस्याविपक्कस्य नाशो यथा-शुक्लकर्मोदयादिहैव नाशः कृष्णस्य । यत्रेदमुक्तम्" द्वे द्वे ह वै कर्मणी वेदितव्ये, पापकस्यैको राशिः पुण्यकृतोऽपहन्ति । तदिच्छस्व कर्माणि सुकृतानि कर्तुमिहैव ते कर्म कवयो वेदयन्ते" । प्रधानकर्मण्यावापगमनम् , यत्रेदमुक्तम्-"स्यात्स्वल्पः संकरः सपरिहारः स प्रत्यवमर्पः कुशलस्य नापकर्षायालम् । कस्मात् ? कुशलं हि मे बहन्यदस्ति, यत्रायमावापं गतः स्वर्गेऽप्यपकर्षमल्पं करिष्यति" इति । नियतविपाकप्रधानकर्मणाभिभूतस्य चिरमवस्थानम् , कथमिति ? अदृष्टजन्मवेदनीयस्यैव नियतविपाकस्य कर्मणः समानं मरणमभिव्यक्तिकारणमुक्तम्, न त्वदृष्टजन्मवेदनीयस्यानियतविपाकस्य । यत्त्वदृष्टजन्मवेदनीयं कर्मानियतविपाकं तन्नश्येत् आवापं वा गच्छेत् । अभिभूतं वा चिरमप्युपासीत यावत् समानं कर्माभिव्यञ्जकं निमित्तमस्य न विपाकाभिमुखं करोतीति । तद्विपाकस्यैव देशकालनिमित्तानवधारणादियं कर्मगतिश्चित्रा दर्जाना चेति । न चोत्सर्गस्यापवादानिवृत्तिरिन्येकभविकः कर्माशयोऽनुज्ञायत इति ।।
(य०) अनेदं मनाग मीमांसामहे-"जात्यायु गा विपाकः" इत्यवधारणमनुपपन्नं, गङ्गामरणमुदिश्य कृतेन त्रिसन्ध्यस्तवपाठा