________________
परिमलनिर्मातुः परिचयः
१४७
प्रास्ते स विद्याविनयावदातो
ज्यायान् महादेव इति प्रसिद्धः । मयि स्फुरत्स्नेहरसोदय यः
सोदर्यसौभाग्यमभिव्यनक्ति ॥६॥ तस्यानुजः शास्त्ररसानुविद्धो
___ गङ्गाधरो ज्ञानसतृष्णवृत्तिः । यश्चन्द्रचूडस्मरणाप्तकामः
कुलश्रियः सौभगमादधाति ॥१०॥ जागर्ति योऽसौ जयपत्तनेऽस्मिन्
गीर्वाणविद्यालय राजकीयः । अध्यापयन् छात्रगणानमुष्मिन्
निर्मत्सरप्रेमपदं प्रयातः ॥११॥ यो ब्रह्मपुर्या नगरोपकण्ठे
'सरस्वती-पीठ' कृतप्रतिष्ठः। यत्रोल्लसद्ग्रन्थचयैरनेकै
विपश्चितः स्वान्तसुखं लभन्ते ॥१२॥
शं वोभवीतु ।