________________
१४१
आत्मोपदेशः यदेतकत्पुत्रकलत्रमित्र
विद्वष्युदासीनचराचरं हि । तन्नामरूपाख्यविकारवर्ज
ब्रह्मति वेदान्तविदो विदन्ति ॥६॥
-
गुर्वादिरूपो महाजनः, येन पथा गतः व्यवहारपथं प्रविष्टः, स एवाध्वास्माकमपि गन्तव्यतयाभिमत इति शास्त्रनिष्कर्षः ।
५-अनेकानि अङ्गोपाङ्गतया बहुलानि यानि शास्त्राणि तेषु च प्रतिपादिताः ये अर्थाः प्रमेयावताराः, तेषां विमर्शनेन पूर्वापरसङ्गतिकेन यथायथमालोचनेन, एवं तत्तन्महाव्यक्तीनां महाप्रभावाणां भगवद्रामकृष्णादीनां एवं गुरुपरम्पराप्रविष्टानां अलौकिकप्रतिभावतां भगवद्वाल्मीकि-व्यासप्रभृतीनां तपोनिधीनां निदर्शनेन, संवादमापन्नेन तत्तदुदाहरणजातेन । त्रैकालिकज्ञान विकस्वरेषु-भूत-भवद्भविष्यतश्चार्थराशीन् करतलामनकवदालोकयत्सु योगवैभवसंपन्नेषु । महाजनत्वं महापुरुषत्वरूपस्य वाच्यार्थस्य विश्रमः , तत प्रतिफलन्त्याः लोकोत्तरप्रतिभायाः हृदगमत्वञ्च । गुरुप्वेव उपदिष्टम् समाख्यातम् । एतान् विहाय कोऽन्यो महाजनत्वरूपां गुर्वीमर्थव्याप्तिमात्मनि सन्धत्त इति एत एवास्माकमग्रेसरा पथप्रदर्शकाः महागुरवो वा व्यपदेष्टुमर्हा इति तात्पर्यम् ।
६-यत् एतकत् दृश्यमाणं जगत् तदन्तर्वर्तमानश्च प्रातिश्विक. पुत्रकलनादिरूपोऽन्तरङ्गभूतः कौटुम्बिकः परिच्छद., यो वा विद्व युदासीनादिरूपो बहिरङ्गभूतः परिकरः । किंवा उभयो. समष्टिरूप यत् चराचरं, जडाजडस्वभावतया सृष्ट्य पहितो यावद्वस्तुसंभारमुक्तो लोकसर्गः , स सर्वोऽपि नामरूपाभ्यां वर्जितः ब्रह्मपदवाच्यतामेव प्रथयति । जायते, अस्ति, विपरिणमते, वर्धते, अपक्षीयते, नश्यति इति षड्भावविकारा एव नामरूपप्रथात्मकं सृष्टिव्यवहारमुद्दिशन्ति इति भाव । नामरूपविलये ब्रह्म व केवलमवशिष्यते । य वेदान्तिन
औपनिषदा वा 'सर्वं खल्विदं ब्रह्म' 'नेह नानास्ति किंचन' इत्येवमादि श्रुतिसंवर्गः ब्रह्मेति परिचिन्वन्ति । तदित्यं ब्रह्मस्वरूपतोऽतिरिच्यमानं सर्वमपीदंनामरूपात्मकं जगत् असदपि सदिव प्रतीयमानं न खलु परमार्थसदिति तात्पर्यार्थ.।