________________
१३४
दुर्गा-पुष्पाञ्जलिः स्फुरदुदग्रसुपर्वतरङ्गिणी
विवुधदक्षनिरूपितसत्क्रिया। व्रजवती महतां बहुमायका
गमहिता महिता श्रुतशासनः ।।१४।।
पक्षे, सती वर्तमाना। कम्पायाः अनु इत्यनुकम्पम् । कम्पानद्याः निकटे कृता विहिता या स्थितिः तया शालते इति तथाभूता । अत्रेदं मूककविसार्वभौमस्य मूकपञ्चशतीपद्य काळच्याः कम्पासत्वे मानम् -
'कम्पातीरवनान्तरं विद्धती कल्याणजन्मस्थली
काञ्चीमध्यमहामणिविजयते काचित् कृपाकन्दली ।। इति। मुदिता प्रसन्नमना •मुक्तिरूपा यो सती साध्वी तस्याः वरा अभीष्टा काञ्चिका एकयष्टिः । 'चन्द्रहारेति' लोकप्रसिद्धमाभूपणम् । उक्तश्चान्यत्र--
'एकयष्टिर्भवेत् काश्ची मेखला त्वष्टयष्टिका ।
रशना पोडश ज्ञेया-इति ।। पक्षे-मुदिता मोदवती मुक्तिरूपा सती यस्यां एवंभूता या वरा श्रेष्टा काञ्चिका काञ्चीति सुप्रसिद्धा नगरी । सुरचिता सुष्टु यथा स्यात् तथा रचिता निर्मिता । एवं सुरै. देवैः पण्डितैश्च चिना व्याप्ता । रचितापविनाशना-रचितं संपादित अघानां पापानां दु खानाञ्च विनाशनं संहार. अनया इति तथाभूता । एतदुभयं उभयत्र समानतया योजनीयम् ।
१४-स्फुरन् शोभमान उदा. उतमन यस्य तादृशः उच्चतम' य सुपर्वतः पर्वतेपु रमणीयो गोवर्धनः तस्य रगिणी अनुरागवती । एव स्फुरन्ती उदग्राणां उन्नतानां, पर्वणां उत्सवानां, तरङ्गिणी नदी यस्यां तथाभूता इत्युभयत्र योजनीयम् । हरद्वार-पक्षे स्फुरन् उदग्रः उन्नत य. सुपर्वतः शोभनो हिमालयः तत्र रङ्गिणी रागवती भागीरथी यस्यां सा । विवुधेपु विद्वत्सु ये दक्षा चतुरा तैः निरूपिता संघटिता सत्क्रिया सत्काररूपमातिथ्यं यस्यां तथाभूता । हरद्वारपक्षे-विवुधो देव. सचासौ दक्षश्चेति विवुवदक्ष दक्षप्रजापतिः, तेन निरूपिता अनुष्ठिता सत्रिया यज्ञादिसभाररूपा यस्यां तथाभूता । व्रजं गोप्टं मथुरासमीपस्थ' प्रदेशविशेषश्च तद्वती ब्रजवती । हरद्वारपक्षे