________________
१३१
मथुरा-माधुरी दशरथस्य पुरीव हरीक्षिता
शुभरता भरताशयसंस्कृता ॥६॥ सततसंगतसाधुमहोदया
ऽधिमणिकर्णिकविष्णुपदाञ्चिता । स्मरजित नगरीव शिवोज्ज्वला
सुरुचिरा रुचिराजितनागरा ॥१०॥ गहनसालसमाकलितावने
प्रतिदिनं विकसन्मधुसूदना ।
भवानि सारवाणि सरयूसमुद्भूतानीत्यर्थः । यानि नीराणि जलानि तै तरङ्गिता संजाततरङ्गा । दशरथस्य राज्ञः पुरी अयोध्या, सा इव हरिणा श्रीकृष्णेन पक्षे कपिमण्डलेन । ईक्षिता चञ्चलहप्ट्यादि परीता। शुभे मङ्गलकर्मणि रता अनुरक्ता। भरतो नटः कैकेयीसुतश्च । तस्य प्राशयेन विभवेन । एकत्र नाट्यकलानैपुण्येन, परत्र भरतस्य असाधारणेन भ्रातृसौहार्देन, संस्कृता भूषिता ।
१०- सततं निरन्तरं, संगता साधवो मनोहराः, महोदयाः उत्सवारम्भाः यस्यां तथाभूता। काशीपक्षे, सततं संगतः साधुः शोभन', महोदय' पुण्यजनको योगविशेषः अस्यामिति । स एप महोदयो नाम पुण्यप्रदो योगविशेषः काश्यां सर्वदैवास्तीति निर्णयसिन्धुप्रभृतिषु धर्मशास्त्रनिबन्धेषु स्पष्टम् । एवं साधव. साधुशब्दिताः चतुर्थाश्रमिणः, महोदयाः भाग्यशालिनो यस्यामित्यपि उभयत्र सङ्गमनीयम् । अधिका प्राचुर्यवती मणीनां मुक्तादिरत्नानां कर्णिका कुण्डलादिकर्णाभरणं येषु, तथाविधैः विष्णुपदै. विष्णुमन्दिरैः, अश्चिता प्रशस्ता । काशीपक्ष-अधिमणिकर्णिकम्-काश्यां सुप्रसिद्धस्य मणिकर्णिकातटस्य समीपे विष्णुपदेन एतन्नाम्नाप्रसिद्धन, स्थलविशेषेण अश्चिता समेता । स्मरजितः शिवस्य, नगरी काशीपुरी, सा इव शिवेन कल्याणेन उज्ज्वला रमणीया । काशीपक्षे- शिवेन विश्वनाथाभिधेन ज्योतिर्लिङ्गन उज्ज्वला भव्या । सुरुचिरा- सुमनोहरा । रुचिभिः अनुरागरसैः राजिताः सुशोभिताः नागराः विदग्धाः यस्यां तथाभूता।
११- गहनै घनीभूतैः सालैः पादपैः । 'रसालसालः समदृश्यत' इत्यादि नैषधीयचरितम् । समाकलिता समन्ततः परिवृता। द्वारकापक्षे- गहन. दुष्प्रवेश.