________________
८६
दुर्गा-पुष्पाञ्जलिः जातेति माताह्वयतामिता या
कायायनी सा ममतां हिनस्तु ॥६॥ कालोऽपि विश्रान्तिमुपैति यस्यां
काऽन्या कथा भौतिकविग्रहाणाम् । प्रपेञ्चपञ्चीकरणकधात्री
सा कालरात्री निहताद् भयानि ॥७॥ कालीकुलं श्रीकुलमप्यपारं
कृष्णाद्युपासाप्रवणं यतश्च । साऽनन्तविद्याविततावदाना
गौरी विदध्यादखिलान् पुमान् ॥८॥
कात्यायनी अज्ञातजन्मवृत्तान्ता ममतां मायारूपां ममत्ववुद्धिं हिनस्तु नाशयतु । 'हिसि हिंसायाम्' इति रुधादिगरणीयात् प्रार्थनायां लोट् ।
७-काल साक्षान्मृत्युरपि यस्या जागरूकायां विश्रान्तिं विनाशं उपैति प्राप्नोति । अन्येषां भौतिकवित्रहाणां पञ्चभूतशरीराणां का कथा क. प्रसङ्गः । सर्वसंहारकस्य कालस्यापिसंही इत्यर्थ. । प्रपञ्चस्य सृष्ट्य पहितस्य यत् पञ्चीकरणं पञ्चीकरणप्रक्रियया एकत्वघटनं तस्य एकधात्री एकैव प्रसवित्री । एवंभूता सा कालस्य रात्री विनाशकीं। 'कृदिकारादक्तिन' इति डीप् । भयानि भीतयः निहतात् नाशयतात्।
८-यतः यस्याः सकाशादाविभूय । 'पञ्चम्यास्तसिल्' इति पञ्चम्यर्थे तसि. । कृष्णादीना योगविभूतीनामपि उपासायां प्रवण उपास्यतया समाहतं कालीकुलं आद्याया. सततिपरंपरा, श्रीकुलं श्रीमातुश्च वंशवितान., अपारं परि
५-सेयं देवकार्यसंपादनेच्छया कात्यायनाश्रमे अवतीर्णा, महर्षिणा च पुत्रीवदेव वात्सल्यस्नेहसंबविता कौमारभावमनुपालयन्त्यपि स्वतन्त्रप्रसरेव चिराय तस्थौ इत्यस्याः कात्यायनीति नाम लोके प्रथां प्रापदिति पुराणागममुखाद् विनायते ।