________________
..... पूजापद्धतिः - . . पूरके दशदले । बं नमः, ॐ नमः, मं नमः, यं नमः, रं नमः, लं नमः, इति स्वाधिष्ठाने षड्दले । वं नमः, शं नमः, सं नमः इति मूलाधारे चतुर्दले । हं नमः, दं नमः इत्याज्ञाचक्रे द्विदले ॥ इत्यन्तर्मातृकान्यासः ॥
अथ बहिर्मातृकान्यासः ॥ ॐ अस्य श्रीवहिर्मातृकान्यासस्य ब्रह्मा ऋषिर्गायत्री . छन्दः श्रीवहिर्मातका सरस्वती देवता हलो वीजानि स्वराः शक्तयः अव्यक्तं कीलकं - मम श्रीभुवनेश्वर्यङ्गत्वेन बहिर्मातृकान्यासे विनियोगः, इति कृताञ्जलिः स्मृत्वा
ऋष्यादिकरषडङ्गन्यासान् पूर्ववत् कृत्वा न्यसेत्, ॐ ऐं ह्रीं श्रीं अं नमः शिरसि ४ - ां नमो मुखवृत्ते ४ इं नमो दक्षनेत्रे ४ ई नमो वामनेत्रे ४ उं नमो दक्षकर्णे ४
. ऊं नमो वामकर्णे ४ ऋ नमो दक्षनासिकायां ४ ऋ नमो वामनासिकायां ४ लं - नमो दक्षकपोले ४ लू नमो वामकपोले ४ एं नम अद्ध्वोष्ठे ४ ऐं नमः अधरोष्ठे
४ ओं नमः ऊद्ध्वदन्तेषु ४ औं नमः अधोदन्तेषु ४ अं नमो मूर्द्ध नि ४ श्रा :. नमो ललाटे ४ कं नमो दक्षस्कन्धे ४ खं नमः कूपरे ४ गं नमो मणिबन्धे ....४ घं नमोऽङ्गुलीमूले ४ ऊँ नमोऽङ्गुल्यग्रे ४ चं नमो वामस्कन्धे ४ छं नमः
कूपरे, जं नमो मणिबन्धे ४ झं नमोऽङ्गुलीमूले ४ व नमोऽगुल्यग्रे ४ टं नमो दक्षजङ्घायां ४ ठं नमो जानुनि ४ इं नमो गुल्फे ४ ढं नमोऽङ्गुलीमूले ४ . नमोऽगुल्यग्रे ४ तं नमो वामजवायां ४ थं नमो जानुनि ४ दं नमो गुल्फे ४.धं नमोऽङ्गुलीमूले ४ नं नमोऽगुल्यग्रे ४ पं नमो दक्षपार्वे ४ फं नमो वामपार्वे ४ ब नमः पृष्ठे ४ भं नमो नाभौ ४ मं नम उदरे ४ यं त्वगात्मने नमो हृदये.४ रं असृगात्मने नमो दक्षांसे ४ लं मांसात्मने नमः ककुदि ४ वं मेदात्मने नमो वामांसे ४ शं अस्थ्यात्मने नमो हृदादिदक्षकरान्तं ४ षं मज्जात्मने नमो हृदादिवामकरान्तं ४ सं शुक्रात्मने नमो हृदादिदक्षपादान्तं ४ हं प्राणात्मने - नमो हृदादिवामपादान्तं ४ ळं जीवात्मने नमः पादादिहृदन्तं, ४ क्षं परमात्मने नमो हृदादिमूर्द्धान्त, इति वहिर्मातृकान्यासः' ॥ अथ मातृकाध्यानम्. पञ्चाशद्वर्णरूपाश्च कपर्दशाशभूषणाम् ।
शुद्धस्फटिकसंकाशी शुद्धीमविराजिताम् ।।..
मुक्तारत्नस्फुरदभूषां जपमालां कमण्डलम् । .... पुस्तकं वरदानञ्च बिभ्रती परमेश्वरीम् ॥
१. स्तोत्रे १७ पृष्ठे २३, २४ श्लोको द्रष्टव्यौ । ..