________________
५० ]
भुवनेश्वरीपञ्चाङ्गम् अधः ॐ दं देहल्यै नमः, अद्ध्ये ॐ वं वास्तुपुरुषाय नमः, अधः अनन्ताय नमः इति द्वारं संपूज्य यागगेहान्तरे अक्षतान् विकीर्य अञ्जलिं कृत्वा- ...
आरब्धं यन्मया कर्म यत्करिष्यामि यत्कृतम् ।
तत्सर्व कृपया देवि निर्विघ्नं कुरु मे सदा ॥ ___ इति नमस्कृत्य, वहच्छ्वासपादपुरःसरं बामाङ्गसंकोचेन गृहमध्ये च वेशयेत् चास्त्वधिपतये नमः ईशाने, दीपनाथाय नमः
द्वीपनाथ गुरो स्वामिन् देशिकस्यात्मनायक ।
भुवनेश्वर्याश्च पूजार्थमनुज्ञां दातुमर्हसि ॥ ईशाने वृतदीपं प्रज्वाल्य, नैर्ऋते भैरवाय नमः
अतितीक्ष्ण' महाकाय कल्पान्तदहनोपम ।
भैरवाय नमस्तुभ्यं अनुज्ञां दातुमर्हसि ।। नैर्ऋते तैलदीपं प्रध्याल्य इति संप्रार्थं पूजास्थानं द्विधाः विभाव्य स्वासनस्थानाय नमः, देव्यासनस्थानं द्विधा विभाव्य देव्यासनस्थानाय नमः, इति स्थानं ... सम्पूज्य । अथासन प्रकार:; ॐ कूर्मासनाय नमः हुं आधारशक्तये नमः ॐ ब्रह्मा- ... सनाय नमः, ॐ कमलासनाय नमः, ॐ विमलासनाय नमः, ॐ अनन्तासनाय नमः, ॐ ब्रह्मपद्मासनाय नमः, ॐ गरुडासनाय नमः, ॐ योगासनाय नमः, ॐ श्रीपरपरात्परसिंहासनाय नमः, इति गन्धाक्षतैः सम्पूज्य ॐ पृथिवीति मन्त्रस्य मेरुपृष्ठ . . ऋषिः कूर्मो देवता सुतलं छन्द आसने विनियोगः, इति संकल्प्य भूमौ हस्तं दत्त्वा :: मंत्रं पठेत्
ॐ पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता । ... त्वं च धारय मां देवि पवित्रं कुरु चासनम् ।। इति
ॐ भूम्यै नमः, इत्यनेन कम्बलाद्यासनमास्तीर्य तदुपरि षट्कोणेषु भूवीजं लिखित्वा मध्ये हुंकारं विलिख्य तत्रोपविश्य, ततो ब्रह्मरंध्रे संघट्टमुद्रया गुरुं संप्रार्थ्य गुं गुरुभ्यो नमः, पं.परमगुरुभ्यो नमः, पं परात्परगुरुभ्यो नमः, पं परमेष्ठि-... गुरुभ्यो नम इति प्रणम्य दक्षे गं गणपतये नमः, वामे दुदुर्गायै नमः, पृष्ठे भैरवाय नमः, अग्रे बटुकहनुमते नमः, हृदि श्रीभुवनेश्वर्यै नम इति प्रणम्य ।
१. वीणदंष्ट्र महाकाय, इति पाठान्तरम् ।