________________
४६ ]
भुवनेश्वरीपञ्चाङ्गम् लुं नमः लूं नमः एं नमः ऐं नमः ओं नमः औं नमः अः नमः अं नमः इति पत्रेषु मध्ये मूलेन च सम्पूज्य, ततो भ्रूमध्ये अज्ञाचक्रे विद्युदणे द्विदलकमले तां नीत्वा तत्र हं नमः शं नमः इति पत्रयोर्मध्ये मूलेन च सम्पूज्य, ततो ब्रह्मरंध्रगतसहस्रदलकमलकर्णिकामध्यगतत्रिकोणान्तर्गतपरमप्रकाशमयविन्दुरूपपरमशिवेन सहकता नीत्वा .. ततः स्रवता परमामृतेन तां संतमे ततो नादश्रवणतत्परो मुहूर्तमेकं लयं विभाव्य अवरोहसमये सर्वत्र सोहमिति मंत्रेण कमलात् कमलेऽवारोह्य मनसाज्ञाचक्रादिक्रमेण तेषु तेषु कमलेषु तैस्तैरक्षरैः सम्पूज्य तत्तदाधारतत्तवर्णतत्तदधिदेवतास्तेनामृतेन सन्तर्प्य तथैव स्वस्थाने मूलाधारे संस्थाप्य प्रणमेत्
प्रकाशमाना प्रथमे प्रयाणे प्रतिप्रयाणेऽप्यमृतायमानाम् । अन्तः पद्व्यामनुसञ्चरन्तीमानन्दरूपामवलां प्रपद्ये ॥ ..
इति देवीरूपं ध्यात्वा वक्ष्यमाणविधानेन प्राणायामऋष्यादिकरपडङ्गन्यासान् विधाय भूलमंत्रं यथाशक्ति जप्त्वा पुनरपि ऋष्यादिकरपडङ्गन्यासान् विधाय: जपं समयं निजकृत्यं समर्पयेत्
अहं देवी न चान्योऽस्मि ब्रह्मैवाहं न शोकभाक् । सच्चिदानन्दरूपोऽहं स्वात्मानमिति चिन्तयेत् ॥ प्रातः प्रभृति सायान्तं मायादि प्रातरन्ततः। . यत्करोमि जगद्योने तदस्तु तव पूजनम् ॥
इति समर्प्य स्वकार्यानुष्ठानायत्रैलोक्यचैतन्यमये परेशि भुवनश्वरि त्वच्चरणाज्ञयैव प्रातः समुत्थाय नव प्रियार्थ संसारयात्रामनुर्वतयिष्ये ।।१।। संसारयात्रामनुवर्तमानं त्वदाज्ञया श्रीभुवनेश्वरीशि। स्पङतिरस्कारकाप्रमाद यानि मां माभिभवन्तु मानः ॥२॥ जानामि धर्म न च मे प्रवृत्तिर्जानाम्यधर्म न च मे निवृत्तिः।
त्वया हृषीकशि हृदिस्थयाऽहं यथा नियुक्तोस्मि तथाऽऽचरामि ॥३॥ ... इति देव्याज्ञां प्रार्थ्य अजपाजपं सहजसिद्धं तत्तद्देवताम्। संकल्पं समर्पयेत् । अंध पूर्वे युरहोरात्राचरितमुच्छ्वासनिःश्वासात्मकं पट्शताधिकमेकविंशतिसहस्रसंख्या