________________
. .. प्रबोधिनीटीकासहितम्
[२६ व्रतेनेति-यः पुमान् व्रतेन हीनोऽपि अनवाप्तमंत्रः अप्राप्तमंत्रः श्रद्धाविशुद्धो भूत्वा श्रद्धया निर्मलीकृतमानसः सन् अनुदिनं निरन्तरं इदं जपेत् तस्यापि पुरुषस्य वर्षात संवत्सरात् विद्याः प्रभवन्ति स्फुरन्ति, किम्भूताः अनवद्यसद्यःकवित्वहृद्याः अनवद्येन निर्दोषेण सद्यः कविन्वेन तत्कालोदितकाव्येन' हृद्याः मनोहराः ॥ ४५ ॥
इदानीं अस्य स्तोत्रस्याचिन्त्यमहिमानमाह- . कोप्याचिन्त्यः प्रभावोऽस्य स्तोत्रस्य प्रत्ययावहः । श्रीशम्भोराज्ञया सर्वाः सिद्धयोऽस्मिन् प्रतिष्ठिताः ॥ ४६ ॥
कोपीति-अस्य स्तोत्रस्य कोप्यचिन्त्यः प्रभावः प्रत्ययावहो वर्त्तते प्रीतिजनको भवति यतः कारणात् श्रीशम्भं राज्ञया सर्वाः अणिमाद्याः सिद्धयोऽस्मिन् स्तोत्रे प्रतिष्ठिताः आरोपिताः अत एव अचिन्त्यमहिमस्तोत्रमित्यर्थः ॥ ४६॥
पद्मनाभेन कविना विपुला विमला कृता ।
पृथ्वीधरकृतेस्तेन वृत्तिः सद्युक्तिदीपिका ।। इति श्रीपद्मनाभकविविरचितं भुवनेश्वरीस्तोत्रभाष्यं सम्पूर्णम् ।।
लिखितं ब्राह्मणजेरामेन ।।
ख. पुस्तकस्य पुष्पिका॥ शुभम् ।। संवत् १६५० पौषमासीयकृष्णपक्षीयनवम्यां शुक्रे
गंगासहायशर्मणो लिपिः । श्रीसवायी श्रीमाधवसिंहराज्ये जयपुरे पुस्तकमिदमायोध्यक
सरयूप्रसाद द्विवेदिनः शिवम् ॥
... ख. तत्कालोचितकाव्येन। २. ख. ग. प्रतीतिजनको । . ३. ख. तत्तु, ग. श्रीमत् पृथ्वीधरनुतेर्वृत्तिः सद्युक्तिदीपिनी। ख. पृथ्वीधरकृती तन वृत्तिः
. सयुक्तिदीपिका। ४. ख. विवरणम्, ग. व्याख्यानम् ।