SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ [ १४७ भुवनेश्वरीक्रमचन्द्रिका संरक्ष्य गन्धादिभिरभ्यर्च्य धेनुमुद्रां वद्ध्वा ॐ जगद्ध्वनि मन्त्र मातः स्वाहा' इति घण्टा सम्पूज्य वामकरे धृत्वा धृनयन् नीचैधूपं बनस्पत्युदभवेति मन्त्रेण मूलयुक्तेन समर्पयेत् । ततो दीपमुचैः सुप्रकाशमहादीपः सर्वत्र तिमिरापहः । सबाह्याभ्यन्तरज्योतिर्दीपोऽयं प्रतिगृह्यताम् ॥ इति मूलयुक्तेन समर्पयेत् । मूलेन नैवेद्य सम्प्रोक्ष्य वायव्यादिवीजैः शोषणादिकं विधाय सुरभिमुद्रयाऽऽमृतीकृत्य- . नैवेद्यं षड्रसोपेतं पञ्चभक्ष्यसमन्वितम् ।. सुधारसमहोदारं शिवेन सह गृह्यताम् ।। . ॐ ह्रीं आत्मतत्त्वाधिपतिश्रीभुवनेश्वरी तृप्यतु । ह्रीं विद्यातत्याधिपति श्री । - ह्रीं शिवतत्वाधिपति श्री० । इति चतुर्धा सन्तर्प्य अमृतोपस्तरणमसीत्युक्त्वा प्राणादि मुद्राः प्रदर्शयेत् । तद्यथा-ॐ प्राणाय स्वाहा इत्यङ्गुष्ठेन कनिष्ठानामिके स्पृशेत् । ॐ ' व्यानाय स्वाहा इत्यङ्गुष्ठेन तर्जनीमध्यमे स्पृशेत् । ॐ उदानाय स्वाहा इत्युङ्गष्ठेनामिकामध्यमातर्जनीः स्पृशेत् । ॐ समानाय स्वाहा इत्यङ्गष्ठेन सर्वाः स्पृशेत् । जवनिकां मध्ये कृत्वा यावदभोजनतृप्तिपर्यन्तं मूलमन्त्रं स्मरेत् । मूलेन मध्यपानीयमुत्तरापोशन( पणं )करशुद्धयर्थं हस्तोदकमाचमनीयं करोद्वर्तनं फलताम्बूलदक्षिणां. समर्प्य ॥ ततो नित्यहोमं कुर्यात् । तद्यथा-आत्मनो दक्षिणभागे चतुरस्त्र मण्डलं कृत्वा अथवा सिद्धकुण्डमानीय तस्मिन् यन्त्रं सम्भाव्य तत्र मूलेन 'फट्' इति प्रोक्ष्य मूलेन अग्निं संस्थाप्य मूलेन अग्निं परिसमूह्य मूलविद्यापडङ्गं विधाय अग्नौ देवीं ध्यात्वा गन्धादिभिरभ्यर्च्य ज्वालिनिमुद्रां प्रदर्श्य घृतेन व्याहृतिभिर्तुत्वा मूलेन घृताहुतिभिः पोडशभिक्षु त्वा पुनः गन्धादिताम्बूलान्तं मूलेन समर्प्य पुनासध्यानं विधाय भो भो वहे महाशक्ते सर्वकर्मप्रसाधक ! . कर्मान्तरनियुक्तोऽसि गच्छ देव ! यथासुखम् ॥ इति विसर्जयेत् । संहारमुद्रया नमस्कारं कुर्यात् ।
SR No.010619
Book TitleBhuvaneshvari Mahastotram
Original Sutra AuthorN/A
AuthorJinvijay, Gopalnarayan Bahura
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages207
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy