________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- ६२८] १४, काष्ठासंघ-लाडबागड-पुन्नाट गच्छ २५१ . ...जातः श्रीकुलभूषणोऽखिलवियद्वासोगणग्रामणी:
सम्यग्दर्शनशुद्धबोधचरणालंकारधारी ततः ।। रत्नत्रयाभरणधारणजातशोभ-स्तस्मादजायत स दुर्लभसेनसूरिः ।। आस्थानाधिपतौ बुधादविगुणे श्रीभोजदेवे नृपे सभ्येष्वंबरसेनपंडितशिरोरत्नादिषूद्यन्मदान् । योनेकान् शतशो अजेष्ट पटुताभीष्टोद्यमो वादिनः शास्त्रांभोनिधिपारगोऽभवदतः श्रीशांतिषेणो गुरुः ।। गुरुचरणसरोजाराधनावाप्तपुण्यप्रभवदमलबुद्धिः शुद्धरत्नत्रयोऽस्मात् । अजनि विजयकीर्तिः सूक्तरत्नावकीणों जलधिभुवमिवैतां यः प्रशस्ति व्यधत्त ॥ तस्मादवाप्य परमागमसारभूतं धर्मोपदेशमधिकाधिगतप्रबोधाः । लक्षयाश्च बंधुसुहृदां च समागमस्य मत्वायुषश्च वपुषश्च विनश्वरत्वं ।। प्रारब्धाधर्मकांतारविदाहः साधुदाहडः । सद्विवेकश्च कूकेकः सूर्पट: सुकृतेः पटुः ।। शंपायोल्लिखितांबरं वरसुधासांद्रद्रवापांडुरं सार्थ श्रीजिनमंदिरं त्रिजगदानंदप्रदं सुंदरं । संभूयेदमकारयन् गुरुशिरः संचारिकत्वंबरं
प्रांतेनोच्छलतेव वायुविहते द्यामादिशत् पश्यताम् ॥ अर्थतस्य जिनेश्वरमंदिरस्य निष्पादनपूजनसंस्काराय कालान्तरस्फुटितत्रटितप्रतीकारार्थ च महाराजाधिराजश्रीविक्रमसिंहः स्वपुण्यराशेरप्रतिहतप्रसरं परमोपचयं चेतसि निधाय गोणी प्रति विंशोपकं गोधूमगोणीचतुष्टयवापयोग्य क्षेत्रं च महाचक्रयामभूमौ रजकद्रहपूर्वदिग्भागवाटिकां वापीसमन्त्रिता प्रदीपमुनिजनशरीराभ्यंजनार्थ करघटिकाद्वयं च दत्तवान् ।। ___...संवत् ११४५ भाद्रपद सुदि ३ सोमदिने ।
( एपिग्राफिया इंडिका २ पृ. २३७ )
लेखांक ६२८ - पट्टावली
महेंद्रसेन त्रिषष्टिपुराणपुरुषचरित्रकर्ता स्वकीयतपस्तपनप्रकटप्रभावान् मेदपाट
For Private And Personal Use Only