________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- ६२५] १४. काष्ठासंघ--लाडबागड--पुन्नाट-गच्छ २४९ खंडिमधिवसति विजयस्कंधावारे चाकिराजेन विज्ञापितो वल्लभेंद्रः इडिगूविषयमध्यवर्तिनं जालमंगलनामधेयग्राम शकनृपसंवत्सरेषु शरशिखिमुनिषु (७३५) व्यतीतेषु ज्येष्ठमासशुक्लपक्षदशम्यां पुष्यनक्षत्रे चंद्रवारे मान्यपुरवरापरदिग्विभागालंकारभूतशिलाग्रामजिनेंद्रभवनाय दत्तवान्... ॥
(जैन शिलालेख संग्रह भा. २ पृ. १३७ ) लेखांक ६२४ – आराधना कथाकोष
हरिषेण ...पुन्नाटसंघांबरसंनिवासी श्रीमौनिभट्टारकपूर्णचंद्रः ॥ ३ ...कार्तस्वरापूर्णजनाधिवासे श्रीवर्धमानाख्यपुरेवसन् सः ॥ ४ सारागमाहितमतिर्विदुषां प्रपूज्यो नानातपोविधिविधानकरो विनेयः । तस्याभवद्गुणनिधिर्जनताभिवद्यः श्रीशब्दपूर्वपदको हरिषेणसंज्ञः ॥ ५ ...नानाशास्त्रविचक्षणो बुधगणैः सेव्यो विशुद्धाशयः सेनान्तो भरतादिरस्य परमः शिष्यो बभूव क्षितौ ।। ६ तस्य शुभ्रयशसो हि विनेयः संबभूव विनयी हरिषेणः ।। ७ आराधनोद्धृतः पथ्यो भव्यानां भावितात्मनाम् । हरिषेणकृतो भाति कथाकोशो महीतले ॥ ८ नवाष्टनवकेष्वेषु स्थानेषु त्रिषु जायतः (१)। विक्रमादित्यकालस्य परिमाणमिदं स्फुटम् ॥ ११ संवत्सरे चतुर्विशे वर्तमाने खराभिधे। विनयादिकपालस्य राज्ये शक्रोपमानके ॥ १३
(सिंधी जैन ग्रंथमाला, बम्बई ) लेखांक ६२५ - धर्मरत्नाकर
जयसेन मेदार्येण महर्षिभिर्विहरता तेपे तपो दुश्चरं. श्रीखंडिल्लकपत्तनान्तिकरणाभ्यर्धिप्रभावात्तदा ॥ शाठ्येनाप्युपतस्पृता सुरतरुप्रख्यां जनानां श्रियं तेनाजीयत लाडबागड इति त्वेको हि संघोऽनघः ।।
For Private And Personal Use Only