________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-- ४४४] ११. बलात्कार गण-सूरत शाखा १७३ लेखांक ४४२ - ज्येष्ठ जिनवर कथा
आसीदसीममहिमा मुनिपभनंदी देवेंद्रकीर्तिगुररस्य पदे सदेकः । तत्पट्टविष्णुपदपूर्णशशांकमूर्तिः विद्यादिनंदिगुरुरत्र पवित्रचित्तः ॥ ७५ गुणरत्नभृतो वचोमृतात्यः स्याद्वादोर्मिसहस्रशोभितात्मा। श्रुतसागर इत्यमुष्य शिष्यः स्वाख्यानं रचयांचकार सूरिः ॥ ७६ अग्रोतकान्वयशिरोमुकुटायमानः संघाधिनाथविमलूरिति पुण्यमूर्तिः । भार्यास्य धर्ममहती बृहतीति नाम्ना सासूत सूनुमनवद्यमहेंद्रदत्तम् ।। ७७ वैराग्यभावितमनाः स जिनूहृदिष्टः श्रीमूलसंधगुणरत्नविभूषणोभूत् । देशव्रतिष्वतितरां व्रतशोभितात्मा संसारसौख्यविमुखः सुतपोनिधिर्वा । पुत्रोस्य लक्ष्मण इति प्रणतीर्गुरूणां कुर्वश्वकास्ति विदुषां धुरि वर्णनीयः । अभ्यर्थ्य कारितमिदं श्रुतसागराख्यमाख्यानकं चिरतरं शुभदं समस्तु॥७९
[से. १] लेखांक ४४३ - रविवार व्रतकथा
भट्टारकघटामध्ये यत्प्रतापो विराजते । तारास्विव रवे: श्रीदो विद्यानंदीश्वरोस्ति मे ॥ १६३ प्रमाणलक्षणच्छंदोलंकारमणिमंडितः । पंडितस्तस्य शिष्योभूत् श्रुतरत्नाकराभिधः ॥ १६४ गुरोरनुज्ञामधिगम्य धीधन: चकार संसारसमुद्रतारकं । स पार्श्वनाथव्रतसत्कथानकं सतां नितांतं श्रुतसागराभिधः ॥१६५
(से. २)
लेखांक ४४४ - चंदनषष्ठी कथा
स्वस्ति श्रीमूलसंघे भवदमरनुतः पद्मनंदी मुनींद्रः । शिष्यो देवेंद्रकीतिर्लसदमलतपा भूरिभट्टारकेज्यः ।। श्रीविद्यानंदिदेवस्तदनु मनुजराजाय॑पत्पद्मयुग्मः । तच्छिष्येणारचीदं श्रुतजलनिधिना शास्त्रमानंदहेतुः ॥ ९६ .
(से. ४)
For Private And Personal Use Only