________________
विशेषावश्यकभाष्ये
[नि०७२६गहितं जिणाति[२७६-५०]सक्खं मई त्ति तल्लज्ज-गोरव-भयातो। सामाइयाऽतियारे परिहरतो तं थिरं होति ॥४१९९।।
गहितं जिणाति० । स्फुटार्था ॥४१९९॥
अथवा समानाधिकरणसमासः, अलक्षणश्च तन्मध्ये एकारादेशः, भदन्त च तत् सामायिकं च तदिति भदन्तसामायिकम् । तदर्थमियं गाथा
अधवा भतं च तयं सामइयं चेति भंतसामइयं । एत्तमलक्खणमेवं भंतेसामाइयं तं च ॥४२००॥ [अधवा भंतं च] तयं इत्यादिर्गतार्था ॥४२००॥
एतत पुनः किमर्थ विशेषणमुपादीयते ? इति चेत अत आहणामातिवुदासत्थं गणु सो सावज्जजोगविरतीओ। गम्मति, भण्णति, ण जतो तत्थ वि णामातिसम्भावो ॥४२०१॥
__णामातिवुदासत्थं । 'भदन्त'विशेषण यदि नामादिसामायिकव्युदासार्थम् , ततोऽनर्थकम् , यतः सा(ना)मादिव्युदासः सावद्ययोगविरतित एव भावसामायिकस्य कृतः किमनेन भदन्तविशेषणेन ! भण्यते, तत्रापि सावधयोगे नामादिनिक्षेपसद्भावोऽस्त्येव, ततस्तत्रापि सन्देह एव, स भदन्तशब्देन (अति)दिश्यते ॥४२०१॥
अथवा षष्ठीतत्पुरुषोऽयम्मंतस्स व सामइयं भंतेसामाइयं जिणाभिहितं । ण परप्पणीतसामाइयं ति भंतेविसेसणतो ॥४२०२॥
भंतस्स व सामइयं । भदन्ता भगवन्तो जिनाः, तेषामिदं सामायिकम् तैरमिहितत्वात् भदन्तसामायिकम् न परप्रगीतमिति विशेषणाद् गम्यते ॥४२०२॥
एवं भदन्तशब्दनिरूपणा। अतः सामायिकपदनिरूपणारागदोसविरहितो समो त्ति अयणं अयो ति गमणं ति । समगमणं ति समायो स एव सामाइयं णाम ॥४२०३।।
रागदोसविरहितो संमो ति | रागद्वेषविरहितः समः, अयन अयः गमन मित्यर्थः, समस्याय समायः स एव-समायः- सामायिकम् स्वार्थिकः प्रत्ययः ॥४२०३॥
.. मए जे । २ 'भन्तेसामाइयं' इत्यस्य समानाधिकरणरूपे कर्मधारयसमासे 'भन्तसामाइयं - इत्येवं भवितुमुचितम् ततः मस्मिन् प्रयोगे एकारः अलक्षण:-व्याकरणलक्षणानुसारी नास्ति किन्तु भाषतया एकारः भागमरूपो बोध्यः, ततः समानाधिकरणेऽपि समासे 'भन्सामाइयं इति सं समुचितं देवम् ।