________________
७२०
विशेषावश्यकभाष्ये
[नि० ६७६
वा दीर्घकालरयम् , सन्तानानुभवात् । अथवा रज इव रजः सूक्ष्मतया स्नेहबन्धनयोग्यत्वाद् वा 'रजः' इत्युच्यते ॥३६३१॥ [२३९-०]सो जस्स दोहकालो कम्मं तं दीहकालरयमुत्तं । अतिदीहकालरंजणमघवा चेट्ठाविसेसत्थं ॥३६३२॥
सो जस्स दीहकालो इत्यादिर्गतार्था । चेष्टाविशेषणार्थ रजो(यो) वेग इत्युक्तम् । स दीर्घकालो वेगः-रयः-चेष्टा-यस्य तद् दीर्घकालरयम् ॥३६३२॥
जं कम्म ति तु सदो विसेसणे पूरणेऽधवा जीवो । जंतु त्ति तस्स जंतो कम्मं से जं सितं बद्धं ॥३६३३॥
जं कम्म ति 'तु' सद्दो । 'यत्" शब्दः सर्वनामत्वाद् उद्देशवचनः-यत् कर्म एवंविधम् । 'तु'शब्दो विशेषणे-भव्यजीवविशेषणार्थः । अभव्येषु दीर्घकालरयमे (ए)व सर्वदानात्मयते-(सर्वथा नाऽऽध्मायते-) तं(तद्) न क्षप्यते इत्यर्थः । अथ एतद् भव्यजीवविशेषणं प्रवचनारम्मेणैव गतम् "भव्वस्स मोक्खमग्गाभिलासिणो" [विशेषा० स्त्रो०७०भा०गा०४पृ०२]. इत्यारम्भात् । ततः 'तु'शब्दः पादपूरणार्थः । अथवा नैवायं 'यत्' शब्दः, न धा(वा) 'तु'शब्दः, किं तर्हि ? शब्दान्तरमेवेदम्-'जन्तु' शब्दो 'जीव'पर्यायः, तस्य जन्तोः कर्म 'ज' कर्म 'से' इति तस्य इत्यर्थः। सितं बदम् "षिध(पिब्) बन्धने" तस्य निष्ठान्तस्य 'सितम्' इति भवति ॥३६३३॥
अधवा सेऽसितमसियं गहियं वत्तमईससिलिटुं वा । जं वा वि-सेसितं अट्ठध त्ति खयसेसितं व ति ॥३६३४॥ दारं। .
अधवा सेऽसितमसियमित्यादि । अथवा 'से' असितम् कृष्णम्-सर्वमेव कर्म संसारानुबन्धित्वात् कृष्णम् अशुभमित्यर्थः । अथवा " यो षो') अन्तकर्मणि" सितम्-गृहीतं व्याप्तं वा अथवा "श्लिष संश्लेषणे"[चौरादिकः] सेसितं' श्लेषितम्
१ "यच्छब्दः उद्देशवचनः सर्वनामत्वात् , 'तुः'...इति भव्यकर्मविशेषणार्थः अभव्यकर्मणः सर्वथा ध्मातत्वासंभवात्--कोट्या० वृ० मु० पृ. ८५८ पं० १ । "यतो न भभव्यकर्म सर्वयाऽऽध्याय" हरिभ० वृ• पृ० ४३९ प्र.। मलय• • पृ०५३४ द्वि० तथा ५३५ प्र.। . २ स्वादिगणे पञ्चमे, क्रयादिगणे नवमे वा| इकिलि जे । १ यद्यपि 'षो' धातुः अन्तकर्मणिविनशरूपे भर्थे धातुपाठे वर्तते, स एव च वृत्तिकारेण निर्दिष्टः तथापि यातूनामनेकार्थत्वात भयमर्यः षो' धातोः बोध्यः । 'षो' धातुः देवादिको हेयः ।