________________
श्रीकृष्णलीलामृतम
रामकृष्णावुभौ तत्र रेमाते परया मुदा । गोपाः सबालाः सस्त्रीका गावो वत्साश्च रेमिरे ।।६।। चलत्तरङ्गनिचया कदम्बतरुशोभिता। प्रफुल्लन्दीवरश्यामा यमुना तत्र राजते ॥२७॥ कृष्णः कमलपत्राक्षो विजहार सरित्तटे । गोपीनां वेणुनादेन व्यहरत सुमना मनः ।।२८।। एकदा सहितो. बालैदरं गाश्चारयन गतः । पीतवासा घनश्यामो यत्रास्ते कालियः फणी ॥२६॥ विषाग्निना ज्वलद्वारि सफेनं बुद्बुदायते । तद्वायुस्पर्शतो व्योम्नः पतन्ति विहगा ह्रदे ॥३०॥ परिधानं दृढं बध्धा कदम्बमधिरुह्य सः । पपातोपरितः कृष्णः स यत्रास्ते महानहिः ।।३१।। कूई नोत्थजलेनाशु मावितास्तटभूमयः । विहरन् हरिं दृष्ट्वा नागपत्न्योऽवदन रुपा ।।३२।। गच्छ गच्छाशु रे बाल दन्दशूकोऽम्ति दुष्टधीः । तरसा तन उत्थाय भोगी भोगेन चावृणोत ॥३३॥ शरीरशक्त्या निःसाय गृहीत्वा भ्रामयद्धरिः । क्षीणशक्ति परित्यज्य तत्फणासु ननत सः ।।३४।। तत्त्वं तत्त्वं ततस्तत्त्वं तत्त्वतम्तत्त्वतस्तु तत् । ततं तेन ततं तेन मदङ्गध्वनितोऽभवत् ॥३५।। नृत्यति स्म हरि: माक्षादहेमृद्ध सु दर्पहा । नताननः स्तुवन्नासीह वदेवं जगत्पतिम् ॥३६।। तव पादतलाघातैः पूतोऽस्मि भगवन् हरे ! गङ्गाया उद्भवो याभ्यां नतोऽस्मि प्रणतोऽस्मि तौ ॥३७॥ जगजनिरभद्यस्मात्तन्मध्ये दुष्टधीरहम् । । पालनीयोऽस्मि भवता मदीय इति बुद्धितः ॥३८।। नागपन्योऽस्तुवन देवं दण्डवत् पतिताः पुरः।. अश्रुमुख्यो नतग्रीवाः कृताञ्जकरसम्पुटाः ।।३६॥ नमस्ते जगन्नाथ भूयो नमस्ते मुखेन्दो प्रसीदाशु भृत्ये नमस्ते। वयं दासदास्यो भवामस्त्वदीयाः त्वदीयाङ्घ्रिपद्मनतास्मो नतास्मः ॥४०॥ इति तासां वचः श्रुत्वा प्रसन्नोऽभूज्जगत्पतिः । गच्छाशु स्वालयं नाग न भयं ते भविष्यति ।'४१।।