________________
कणकुतूहलम्
तत्र सुमुखस्तुत्या गीतं गीयते
एकदन्त लम्बोदर गौरीसुत विघ्नराज जय जय जयकारी विजयं त्वं देहि । दत्त्वा सस्वरतालं सविलासं ह्यपसरसस्तत्थेइ थेइ नृत्यन्ति प्रणयं तदवेहि । धिकट धिकट मुरजध्वनिसंगीतं गायन्त्यः परमेश्वर महाराजं त्वधिकं [६B] परिपाहि ।। काव्यमिदं भोलानाथः कुरुते स्म श्रुतिसारं हृदि कृत्वा परमेशः सुखमनुभूतं याहि ॥२७॥ करुणासिन्धो श्रीमुरारे ! कृष्ण कृष्ण यदुवंशधुरंधर कंसारे ! कुरु वासं करुणामय मम हृदय उदारे,
भोलानाथं तारय पतितं भवपारावारे ॥२८॥ शिव शिव वृषभध्वजेश वामदेव महादेव ! विजयं त्वं देहि श्रीसदाशिव दयालो ! भूतप्रेतपैशाचाः नृत्यन्तो धावन्तो धावन्तो हहहेति हसन्तश्च पालो ! गायन्तो गन्धर्वा अप्सरसः सगीतं नत्यन्ति श्र तिभिः सहदेवैरभिवन्द्यः भोलानाथेन सता कृतमेतद्यः
पठति स्फुरति प्रभुरीशस्तस्य हृदय श्राद्यः ॥२६॥ श्यामा अराला शुचयोऽतिदीर्घाः काकोदराः किं शिखिबईभारः। केशास्तवैते सुदृढं मनो मे बध्नन्ति पाशाः किमु वा भवन्ति ॥३०॥ [७A]
शशिप्रभं प्रियामुखं चकोरनेत्रयोः सुखं ददाति कर्णयोः सदा वचोऽमृतं विशेषतः । सरोजरूपसुन्दरं पतन्ति षट्पदा मुहुः प्रसाधशालि-केशपाश-मेघवृन्दसंवृतम् ॥३१॥ मगालिमीनखजनाब्जहृच्चकोरचञ्चले दृशौ विशाल-कर्ण-गेहतो हृदन्तरं मम ।