________________
कर्ण कुतूहलम्
निशायां धृष्टोऽसौ न हि भवति लज्जावृतमुखो जितो राजन् लोके तव विधुमुखस्य प्रतिभया ||२१|| पङ्केरुहमिदमम्बुनि जितलक्ष्मीकं निमज्जितु ं भवति । तव मुखचन्द्रप्रभया, पृथ्वीतिलक प्रतापनिधे ! ||२२|| सूत्रधार एवं प्रस्तूयावोचत्—
भाव ! श्रीमहाराजोऽयं सभां कृत्त्वेदानीं तिष्ठति नाट्य विधेयमेतस्याम सभ्याश्चातीव विदग्धाः सन्ति ।
नटी कतिपय सखीभिः परिवृ [५] B] ताssगता स्वर्गात् स्वर्वधूरिव झणझणायमानरत्नभूषणचया । ततः पञ्चाङ्ग ुलिं कृत्त्वा 'जऋतु जयतु महाराओ' इत्याशिषं दत्त्वा अतिष्ठत् ।
•
तत एकतालं तत सुषिरादिवृत्तो : मृदङ्गध्वनिरभूत् । नटीमवलोक्य सभ्या वर्णयन्ति -
उदयति विधुरेव यत्प्रकाशः प्रसरति दिक्षु कुतोऽयमेति तर्कः । अनुसृत इव यच्च कोरवृन्दैः परितः पश्य सखे ह्यपूर्वदृष्टः ||२३||
उदयति किमु वा शशी सलीलं किमु ललना भवतीति मे वितर्कः । प्रसरति विशदप्रभा समन्तात सुरललनैव नरीषु नैव दृष्टा ||२४||
कि वा शशी मुकुर बिम्बमदोऽरविंद
किं वा मुख सरसिजे हरिणौ दृशौ किम् । गुच्छौ खगौ किमुत हेमघटो कुचौ किं क्षीराधितोऽवनिगता कमलाबला किम् ||२५|| सालस्यैर्गतिविभ्र [६ A] मैमृगदृशा हंसा निरंशाः कृताः वार्यन्ते वरवारणाश्च विजिताः सिंहाः सुमध्येन च । इन्दुश्चारुमुखेन पक्ष्मलदृशा पद्मानि नो दृक्पथे कस्माद्द ेशत श्रागतेऽयमबला साक्षाद् भवेत्स्वर्वधूः ||२६|
लावण्यस्य तरङ्गिणी भवति किं मज्जन्ति चेतांसि यत्. बाणा: किं कुसुमायुधस्य सकलं व्याहन्यते वीक्षणात् । संगीतस्य च गीतकस्य च निधिर्वाणी नरीनृत्यते भूमिः कि भवमोहनस्य च करक्रोडे जंगद्वत्तते ||२७||
•
* जयतु जयतु महाराजः । : ' वंशादिकं तु सुषिरं कांस्यतालादिक घनमित्यमरः ।