________________
महामहोपाध्यायपण्डित श्री दुगाप्रसाद द्विवेद विरचितम्
दशकण्ठवधम्
नाम
रामचरितम्
wwwwwwmm
तदोपदार्थस्य वरेण्यमेतद् देवस्य भर्गः सवितुः प्रधीमहि । ब्रह्मादिरूपत्रितयोपसहृतियों नो धियः कर्मभुमि प्रचोदयात् ||
साधुशुद्धि: ।
को मत्स्यादि निषेवितु निविशते नानावतारान्तरे को वा न्यूनतयावधारितमहस्याश्वाममायास्यति । शृङ्गारोदयदीपितोऽपि चरमे नालम्बते गौरव
चेतः केवलमेकमेन मनुते श्रीरामभद्र हरिम् ||१|| दशकण्ठध नाम चरितं रामवर्मणः 1 यत्र विन्यस्यते साधुशुद्धिर्लाभाय शर्मणः || २ || एतदुच्छृङ्खल ब्रह्मन् ! मनश्चेद् रावणायते । तदानीमिन्द्रियग्रामो दशकण्ठायते ध्रुवम् ||३|| दडान्वयक्रमेणात्र तथार्थान् प्रारभामहे । यथा न सज्जतेऽहन्ता ससार कफले महे ॥ ४ ॥ इहामुत्रानुरक्ताना किमन्यद् वासनावहम् । उभयत्र रक्तार्ना किमन्यद् वासनापहम् ||५||
अथ दशकण्ठवधाख्यरामचरित प्रारिप्सु - 'मङ्गलाचरण शिष्टाचारात् फलदर्शनात् श्रुतितश्चेति' सा० द० ५१ ) इति प्रमाणयन् सच्चिदानन्दलक्षण परमात्मान परामृशति