________________
६७
द्वितीयो गुच्छक निराकुर्वन् घनाकारमहकारमहाकरी ।
श्रा ! प्रारोहयते काम दुरारम्भनिपादिनम् ॥४६॥ निरेति । आ । अहकार एव महाकरी मत्तमातङ्ग । घनाकार निराकुर्वन् पराभवन् । दुष्ट आरम्भ दुरारम्भ , स एव निषादी, तम् । काम यथा स्यात् तथा, आरोहयते ॥४६॥
अहो ! अहकृतेः कृत्या यदल्पेऽपि परिच्छदे ।
अाढ्य मन्या नृपमन्याः प्राज्ञमन्याश्च जज्ञिरे ।।४७॥ अहो इति । अहो । हहो ।। अहकृतेरहकारस्य । कृत्या करणेन चेष्टया अथवा कृत्येति प्रथमान्तम् । यद् यस्मात् कारणाद् अल्पे कतिपयेऽपि । परिच्छदे भोगसामग्रीसत्त्वे । इत्थप्रकृतिका जज्ञिरे-इत्यर्थ ॥४७॥
अहकारेऽम्बुदे शान्ते तृष्णया तडिताऽशमि ।
विच्छिन्ने विटपारोहे व्रतत्यापि विलीयते ॥४॥ अहमिति । अहकारे अम्बुदे शान्ते सति । तृष्णया तडिता विद्यु ता अपि अशमि शान्तम् । शम्यतेर्भावे लुड् । व्यस्तरूपकम् । विटपारोहे विच्छिन्ने सति, तदालम्बिन्या व्रतत्या वल्लापि । विलीयते शम्यते इति प्रसिद्धम् ।।४८।।
अहमित्यस्ति चेद् बुद्धिरहमापदि दुःखितः । नास्ति चेत् सुखितस्तस्मादनहकारिता वरम् ॥४६॥
॥ इत्यहकारजुगुप्मा॥ अहमिति । अनेनाहकाराभावो व्युत्पादित ॥१||
॥ इत्यहकारजुगुप्सा ।।
मनो मननविक्षुब्ध दिशो दश विगाहते ।
मन्दरान्दोलनोद्ध तक्षीरोदाम्बुपृषद् यथा ॥५०॥ मन इति । क्षुब्धस्य मनसो दशदिशावगाहने देवासुरैर्मध्यमानस्य हीरोदस्य क्षीराब्धे पृषतो दृष्टान्त ॥५०॥