________________
प्रथमो गुन्छक
५३ अतएव भ्रमन्त , ये मिलिन्दा भ्रमरा , तेषा काहलीविजृम्भणया ध्वनिविशेषा विष्कारेण अवभासिता नीरन्त्रिता । उदारा पारिजातकप्रसूनाना वृष्टय वर्षणानि । निपेतु पतिता । दिश आशा । प्रशस्तदर्शना सुखालोका । समीरणा वायव । सुखावहा स्पृहणीयस्पर्शा । भुव कृत्रिमाकृत्रिमस्थलप्रदेशा । प्रकर्षसगता स्वस्वगुणोत्कर्षे हृदयगमा । जना लोका । प्रसन्नता प्रसादम् । इता प्राप्ता । विचित्र भाविकवादेन विलक्षण, यत् कर्म शरीरवाड्मनोभिरारब्वम्, तद्भोगत तद्भोगाय । क्वचित् कस्मिंश्चित् । चराचरान्तरे स्थावरजङ्गमलक्षणे सर्गे। निविष्ट लीन, जीवस्य बलप्राणधान, चेष्टित विलसित, येषा तादृश | वय सप्रति वर्तमाना अपि । शाब्देन आर्थेन च व्यापारेण प्रसादम् आगता प्रतिपन्ना इति पुनरुक्तप्रायम् ॥६६॥
पुष्य क्षितिजमुपागते झषे विलग्ने
सलग्नप्रमदनिशामनाञ्चिते जनौघे । सौभ्रात्रप्रकरणतात्त्विकप्रमेयकल्य
कैकयी भरतमस्त भूरिभाग्यभव्या ॥६७॥
पुष्य इति । भूरि भूयिष्ठ, यद् भाग्य भागधेय, तेन भव्या शोभना । कैकेयी राज्ञी। पुष्यर्ते पुष्यनक्षत्रे। झषे विलग्ने मीनाङ्ग । क्षितिज क्षितिजरेखाम् । उपागते प्राप्ते । मीने उदिते सतीत्यर्थे । सलग्न सश्लिष्ट , य प्रमद आनन्द , तस्य निशामनेन आकर्णनेन, अञ्चिते । जनौघे अन्त पुरवर्गे । सौभ्रात्रप्रकरणस्य भ्रातृस्नेहपूर्ते , यत् तात्त्विकप्रमेय मार्मिकरहस्य, तत्र कल्य निष्णातम् । भरत तन्नामानम् । असूत अजीजनत् ॥६७॥
साईं कर्कटलग्नेऽभ्युदिते मार्तण्डके महाभागौ । तौ लक्ष्मण-शत्रुघ्नौ प्रासोष्टार्या सुमित्रापि ॥६८॥
सार्प इति । आर्या महनीया । सुमित्नापि राज्ञी । सार्पे आश्लेषानक्षत्रे । कर्कटलग्ने कर्कोदये । मार्तण्डके सूर्ये । अम्युदिते सति । तौ महाभागौ महा शयौ । लक्ष्मण शत्रुघ्नौ तन्नामानौ । यमलावित्यर्थ । प्रासोष्ट प्रासूत ॥६६॥