________________
चतुर्थो गुच्छक यत इति क्रियामितिच । कालस्य कलना षड्भागविकारा । दृश्यस्य दृश्यता, दर्शनफलव्याप्ति । मानसी कल्पना इष्टानिष्टपरिहारविषया मनोरथविकल्पा । येन निमित्तेन । क्रमाद् यदीयसच्चिदानन्दरूपता निर्वाह्या इति यावत् । तञ्च त्रयम् यस्य भासा जगद्विभासनमेव नान्यत । अय भाव -अज्ञातसाधारणी सर्वव्याप्ति सत्ता । अनावृतमात्रव्याप्ति दर्शनम् । तत्र अनुकूल वेदनीयमात्रव्याप्ति आनन्दता इत्यान्तरे औपाधिकचैलक्षण सत्यपि भारूपव्या'तेरेकरूपत्वात् ।
देहकर्मेन्द्रियोपायो क्रिया, ज्ञानेद्रियोपाधो रुपादि, अन्त करणोपाधौ चेतन प्रमातार च यत्स्वरूप सन् वेत्सि तत् प्रमातृनिष्कृष्टचिद्र पमसौ । येन विषयव्याप्तवृत्तिनिष्कृष्टचिद्र पेण वेत्सि तदप्यसौ देन इत्याशय ।'८३-२४॥
( इति परमकारणदर्शनम् ) नाशयित्वा स्वमात्मान मनसो वृत्तिसक्षये ।। सद्रूप यदनाख्येय तद्रूप तस्य वस्तुनः ॥८५||
नाशयित्वेति । यथा समाधो निरोधेन वृत्तिसक्षये सति निरिन्धनाग्निवन् मनस स्वमात्मान मन स्वरूपमपि नाशयित्वा यद् अनाख्येय स्वप्रकाशसद्र पम् अवशिष्यते तद् इत्यर्थ ॥८॥
नास्ति दृश्य जगद् द्रष्टा दृश्याभावाद् विलीनवत् ।। भातीति भासन यत् स्यात् तद् रूप परमात्मनः ॥८६॥
नास्ति दृश्यमिति । निर्विकल्पकस्य समाधे प्रारम्भे दृश्याभावाद् द्रष्टा प्रमातापि विलीनवद् भाति इति त्रिपुटीलयभासन साक्षिरूप तदित्यथे ॥८६॥
चित्प्रकाशस्य यन्मध्य प्रकाशस्यापि खस्य वा ।। दशेनस्य च यन्मध्य तद् रूप ब्रह्मणो मतम् ।।८७||
चित्प्रकाशेति । यद् द्रष्टु कोटौ अन्नमयान्ते आत्मतया प्रसृतस्य चित्प्रकाशस्य एकैककोशनिवेकेन पर्यालोच्यमानस्य आनन्दमयकोशस्यापि
आन्तरत्वान् मध्यम, टश्यकोटौ च मूर्तप्रपञ्चसारभूतस्य आदित्यात्मकप्रकाशस्य अमूर्तप्रपञ्चसारभूतस्य रवस्य, आकाशलिगसमष्ट्वात्मन अव्याकृताकाशस्य वा आन्तरत्वाद् यन्मव्य दर्शनस्य चाक्षुषादिवृत्तिरूपस्य च अन्त स्फुरणरूपत्वाद्