________________
अवन्तिसुन्दरी।
तस्मिंश्च रक्तनीलधवलकान्तिना प्रियतमेक्षणार्धप्रभासञ्चयेन चित्रकञ्चकेनेव छाधमानो, हृदयविजृम्भमाणमन्मथहुताशनोद्गारकल्पेन तत्कालोचितेन कुलमानरागेणेव रागेणाधरपल्लवस्यानुलिप्यमानः, कर्णकथनीयमन्मथगुह्याख्यानेषु कुन्द. कलिकाभिरिव स्मितमयूखमञ्जरीमिः क्रियमाणावतंसः, क्षणमधिवास प्रणयकथाभिरुपपादितरतोत्सवोपकरणासु निर्गतासु परिजनवधुषु मधुरचुम्बनोपक्रमप्रवृद्धरागावेशो, विवशस्फुटपतितदशनपद्धतिरुद्धृतवेदनाकलहितलामपल्लवा(?). द्विगुणपीडिताधरमणिमुखग्रहणविग्रहोपयुज्यमानशिखरनखरलीलायुधः सललित विसंवादनिर्गमप्रतिबद्धरुद्धनीविकांशुकपरिपन्थिकोपलीलाकुञ्चितभ्रुकुटितर्जितो,रमसकचग्रहव्याकुलविलोलघम्मिल्लबन्धसन्धुक्षितमन्मथातिस(म्भ्रा ?म्भ्रमा)न्तरितविरो. धावरोधनपयोधरानिगाढो (?) गुरुनितम्बसम्मर्दवर्धिताकन्दचलतुलाकोटिकमुद्रतस्तनतटनिबिडपीडाकम्प्रमध्ययष्टि दष्टाधरसम्भ्रमभ्रान्तमुग्धलोचनमश्चितकररुह. लिख्यमानकपोलविह(न?)लाननव्यञ्जितस्तनितकूजितमलके चुम्बनविमृदितागरुति. लमालपारिप्लवखेदबिन्दुरेखमुद्दामरागदीयमानयुवतिपौरुषमुपोढालक्तकपदपालीरक्त • भङ्गुरतरङ्गोत्तरच्छदमुच्चलितचिकुरपल्लचि...परितगर्भगृहतलमळकवासचूर्णविसर • धूसरितोपधानमग्राम्यविकल्पविभ्रमरमणीयमायतायतं सुरतमाचचार ।
गमितहेमन्तश्च हेमन्तातिग....[शत्ये शैत्यशान्तशकुन्तकान्ता]मुक्त. कोटरशते शीतालुजगत्प्रतीक्ष्यमध्यन्दिनातपे तापसतपःसम्भारभावनोचितेऽपि तुहिनद्रोहदुर्मुखपथिकजनप्राणा[ पालनज्वलितपुण्यानलसकलसहे ( ? ) सुपगभासुरहसन्तिकासहस्त्रे ] सहस्ररश्मिश्रितशीतघृणिशिले श्लाघनीयपक्ष्मणि मृगरोमणि
1. A reads प्रियतमेक्षणप्रभा• page 23. 3. A reads सम्भ्रान्तान्तरितविरोधन- __पयोधराविगाढो.
, 3. , पीडिता कम्प्रमध्य.
4. L. about 7 letters. 5. "10 , 6. A reads रोमणि मणिदास