________________
अवन्तिसुन्दरी ।
स्रोतोभिर्वा स्थलादुपहृतः कालकल्पमनरूपं वारिधेः क्षारवारिणि परिभ्रम्यस्यापि हि मेऽस्मिन् विस्मयवस्तुनि जिज्ञासया समाक्रान्तमेव हृदयम् । तदेहिं गच्छाम इति सह सहायैः काञ्चीमेव न्यवर्तत ।
तदाश्चर्यश्रवणरागावर्जितमनोभिस्तु मातृदत्तरामशर्मप्रभृतिभिः प्रियसखैमुहुर्मुहुः प्रेयमाणो गणरात्रकृतात्मशोभनो द्वादश्यामश्रान्तभक्तियोगः कल्पोक्तेन विधिना विधाय विष्णुपूजां दर्भशयनमध्यशेत । तथा शयानं चाशरीरा सरस्वती स्वमे एनमन्वग्रहीत् । “ वत्स ! समृद्धं ते समीहितम् , सुप्रसन्नस्ते सुरासुरगुरुस्त्रयीशरीरत्रिभुवनपतिनिधामः । प्रतिभातु तवैतदाश्चर्यभूतं सर्वपुरुषार्थोपदेशगुरु सर्वद्वीपवृत्तान्तबहुरसं सर्वकलाकलापगर्भगम्भीरं सर्वसमयरससम्भेदसम्मतं सर्वादिराजवंशवर्णनमनोहरकथं सर्वदेवासुरवृत्तकीर्तनाद्भुतं सर्वमनुजगन्धर्वसिद्धविद्याधरेश्वरस्य राजवाइननाम्नो [ . . . पारमत्। उपारमत यामिनी । विस्मयप्रतिबुद्धस्य चास्य लोत् . . . ] देवजलाप्लुतः सुचिरोपस्थितपूर्वसन्ध्यः स्वनुष्ठितभगवदाराधनः स्वादुचतुःसमान ? )सन्तर्पितद्विज(प? वीरः स्वयं च प्राशितहविष्याशनः प्रशस्तमङ्गल्यवेषः शुश्रूषवे सुहृद्गुणाय कथापबन्ति सुन्दरीमाचिरव्यासुरित्यभाषत । युष्मत्प्रार्थितानुष्ठितप्रयत्नेन मया मधुनर कारिष्टकेशिकंसध्वंसनस्य त्रिभुवनैकमङ्गलस्य भगवतो भक्तभयहरणविधिविचक्षणस्या[म्बुजेक्षण ] स्य प्रसादादम्बुनिधावग्बुजस्याम्बरेचरत्वप्राप्त्यवसानमद्भुतमतिमहत् कथाशरीरं दृष्टम् । अस्ति चेत् कुतूहलमयमहं कथयामि । श्रूयताम् :
[आसन्नसङ्कीर्णविविक्तवर्णाश्रमा . . . . . र्यपश्या असूर्यपश्याः सुन्दरपुरन्ध्रयो निरवगहन्नि ] स्वारम्भगुरुकुटुम्बिवर्गा (?) रक्कोद्रासन
1. The text is defective. Ve may read परिभ्रम्यति । अस्यापि. 2. शोधनः is more probable. 3. There is no lacuna in our Ms. But obviously 'some portion
is missing.