________________
१५६
आचार्यदण्डिविरचिता
विघ्ननायको देवं च सग्रहनक्षत्रतारकाचक्रं चन्द्रमसमुतरतोऽर्चयित्वा प्राच्यामच्छिन्नानां हरि(द ! त)च्छद द्वात्रिंशदङ्गुलाया(म!)मप्रमाणां वेणुयष्टिं निखाय तजसन्निधापितं समरुद्गणममरराजमाराध्य हुत्या चित्रमानुमैन्द्रस्त्रयोदशभिर्मन्त्रैरर्चितसर्वदिव्यस्थानदेवतायतनक्रमसम्प्रोक्षितावसयमात्रापरिग्रहः शुचौ देशे व्रीहितिलसर्षपमाषलाञ्छितमच्छिनाग्रदर्भपूतं पुण्यगन्धसुरभिविष्टर. मषिष्ठितः प्राङ्मुखाय पवित्रपाणये गुरवे गन्धप्रलिशान्तराभ्यां पात्राभ्यां पाद्यमर्यच दत्त्वा दत्तपुष्पगन्धमुदीचीनं भुवस्तलात् पवित्रमादाय धूपदर्शितमभिमुखप्रणामपूर्वमुपहरति, हृत्वा तु गुरुः स्वमूर्ध्नि सिप्वाक्षतस्पर्शितबाहुः परित्यजति दत्तदक्षिणश्च यथाशक्ति शिष्यो मर्षयतु भगवानित्यमिवाद्यापरानपि यतीनभिवादयते । सोऽयमेवाभिवादनवर्ज शिष्यादपि गुरोर्बतबन्धे विधिः । एवं च बद्धव्रतो विंशमहश्शतं नियतदेशविधेयशय्यासनादिक्रियाकलापो वसतीत्यामन्त्रय क्षितीशं प्रातिष्ठत ।
उत्तरेधुरुन्मिपत्येव कर्णगुरुकर्णिके दिनकमले कमलवनपरिमलिनि मिलितवनलतोकेसरकुसुमकोमलोदरे विरचितविभातमारुते कृतप्रतिकर्मा समं जायया सानुयात्र-तत्रैव मगधराजो जगाम । कृतोचिताहणी च दम्पती तमिन्द्रपूजोत्सवमनु बभूवतुः । इन्द्रसमं च सूनुमात्मनः समकरुपयताम् ।
__वृत्ते च विवनसविधानविहिते विधी स्थानस्थापितेषु प्रज्वलत्सु प्रदीपेषु बलवत्सु देवगृहे धूपेषु लमहलि कुसुमेषु द्विजगणपरिवेषणव्या(ह ! )तासु भ्रमन्तीषु पतिवत्नीषु बलिपिण्ड लोलुपेषु चापतस्सु वनमृगेषु महर्षे. नियोगात् किमपि सम्पन्नापत्यसाधनं विधृत कल्पं मन्त्रमद्विती(ये ? यं) प्रतिपित्समाने पत्यौ, तपस्विन्याः कुतश्चिदुपलभ्य सन्निहितपितापुत्रकं किश्चि. दासन्नं वन्यायतनं तामेवाग्रतःकारमपत्यश्र(द्वा! द्धया)वनिपालपनी परिमितपरिजना जगाम ।